पृष्ठम्:महार्थमञ्जरी.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०१
श्रीमन्महेश्वरानन्दविरचिता

चित्रं न लिखति चित्रं
 चित्रकरः पश्यति लिखति तच्चित्रम्।
तद्भणत कुत्र योग्या
 कर्तुं द्वयोरिति देवताबुद्धिः॥४७॥

 जडमजडं वा वस्तु 'देवता' इति संदिहानो जन एवं प्रतिबोध्यः, यदुत आलेख्यार्पितवपुषं पुरुषमचेतनं प्रति तज्जातीयस्य अन्यस्य कस्य चिदपि तादृग्विलेखनक्रियायां सामर्थ्यं नालो क्यते प्रत्युत तद्विजातीयस्य तच्छिलानिर्माण रूपकौशलोत्कर्षशालिनः चेतनस्यैव तत्संभवति इत्यापतितम् । उक्तमर्थं हृदयंगमीकर्तुं ‘पश्यति' इत्युक्तम् , चेतनाचेतनयोः सामर्थ्यमसामर्थ्यं च प्रख्यापयितुं पुनः पुनश्चित्रशब्दप्रयोगः। तदिति यतोऽन्वयव्यतिरेकाभ्यां चेतनस्यैवोक्तक्रियाकर्तृ त्वम् न पुनस्तद्व्यतिरिक्तस्य कस्यचित्ततो हेतो र्भणत परामृशत-तयोश्चित्रस्य चित्रकरस्य चो