पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२
काव्यमाला ।

षोडशदलपद्मबन्धो यथा--

कृतस्वान्तततध्वान्तधूत भूतहितव्रत ।
दान्तशान्तजितप्रेत श्रौतगीतसुतस्तुत ॥ ५ ॥

अष्टदलपद्यबन्धो यथा--

माता तस्या धरण्याश्चरणभजकवस्वीशयक्षोरधामा
माधारक्षो यशस्वी भवतु मम मुदे भ्राजितस्फारनामा ।
मानारस्फातजिभ्राजितरिपुनिवहध्वंसनव्याससामा
मासासव्या न स ध्वंसितदितिजवरेण्यारधस्याततामा ॥ ६ ॥

एतेषु यथासंभवं लक्षणमूह्यम् । एवमग्रेऽपि ।


कच्छपे हरौ ॥' इति मेदिनीकोशान्महालक्षणसंपन्नेत्यर्थः । भया कान्त्या आढ्य युक्त ललामं भूषणं यस्य तथोक्तम् । 'ललाम पुच्छपुण्ड्राश्वभूषप्राधान्यकेतुषु' इत्यमरः । कला विद्यारूपं कटकं भूषणमिति व्यस्तरूपकम् । देहि । इयं विष्णुं प्रति भक्तस्योक्तिः ॥ कृतेति । कृत स्वान्ते भक्तहृदये ततस्य व्याप्तस्य ध्वान्तस्याज्ञानस्य धूत निरसनम् । भावे क्तः । येन तस्य संबुद्धौ तथोक्तम् । भूतानां प्राणिनां हिते हितकरणे व्रतं दीक्षा यस्य तथोक्तम् । जितः प्रेतः शत्रुर्येन सः । 'प्रेत शत्रौ शवेऽपि च' इत्यनेकार्थः । श्रुतीनां समूहः श्रौतः तस्य गीत यस्य सः । उच्चारणार्थकाद्भाधातोर्भावे क्तः । तथा च दान्तश्चासौ शान्तश्चासौ जितप्रेतश्चासौ श्रौतगीतश्चासौ सुतश्च । ब्रह्मेत्यर्थ । तेन स्तुतेत्यपि संबोधनम् । देहीत पूर्वेणान्वयः ॥ मातेति । माता तस्या धरण्याः चरणभजकवस्वीशयक्षोरधामा माधारक्षः यशस्वी भवतु मम मुदे भ्राजितस्फारनामा मानारस्फातजिभ्राजितरिपुनिवहध्वसनव्याससामा मा आस असव्या न सः ध्वसितदितिजवरेण्यारधस्य अततामा इति पदच्छेदः । स इति तच्छब्दप्रयोगाद्यस्येत्यध्याहर्तव्यम् । ध्वसिता दितिजवरेण्या दैत्यश्रेष्ठा नरकाद्या येन तस्य तथोक्तम् । यस्य कृष्णस्येत्यर्थः । अततोऽसगत आमो रुक् यस्याः सा तथोक्ता । 'तत व्याप्ते विस्तृते सगते त्रिषु । वीणादिवाद्ये क्लीबे स्याद्वायौ पुंसि' इत्यनेकार्थः । 'आमो रुक्तद्भिदोः पुंसि स्यादपक्वेऽन्यलिङ्गक' इति मेदिनिः । मा लक्ष्मीः । असव्या वामभागास्थिता । 'वामं शरीरं सव्य स्यात्' इत्यमरः । नास नाभवत् । तथा च भार्या अभवदिति भावः । स तादृशः कृष्णो मम मुदे भवत्वित्यन्वयः । अन्यत्सर्वमस्य विशेषणम् । तस्या धरण्या भूमेर्माता मानकर्ता वसवश्च ईशश्चासौ पक्षश्चेशपक्षः । यक्षराज इत्यर्थ । उः शिवः । रोऽग्निः । एतेषां द्वन्द्वः । तथा च चरणभजकानां स्वपादसेवकानां वस्वीशयक्षोराणां वसुकुबेरशिववह्नीनां धाम तेजो येन स तथोक्तः । माया लक्ष्म्या आधारः क्ष वक्षःस्थलं यस्य स तथोक्तः । यशस्वी कीर्तिमान् । भ्राजितानि स्फाराणि बहूनि नामानि यस्य स तथो