पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५.बन्धबिन्दुः]
४९
मन्दारमरन्दचम्पूः ।


बन्धबिन्दुः

अथाधुना बन्धबिन्दौ बन्धलक्ष्माणि कानिचित् ।
ब्रूमहे बुधमोदाय गर्भितोदाहृतिक्रमम् ॥
यद्यप्यनेके बन्धास्तु कविप्रौढिमगुम्फिताः ।
तथापि ब्रूमहे कांश्चिन्नागपद्मगजादिकान् ॥
द्वितीयान्त्यौ तथा तुर्यत्रिंशतौ षष्टषष्ठिकौ ।
अष्टमाष्टत्रिंशतौ च दिक्चतुःषष्ठिकावपि ॥
द्वादशेन्द्रौ नाट्यचेष्टाद्विचत्वारिंशतौ तथा ।
पीठाष्टषष्ठिकौ च षट्चत्वारिंशविंशती ॥
द्वाविंशत्षट्सप्ततिकौ पञ्चाशत्केशवावपि ॥
अशीतिषड्विंशती चत्वारिंशत्षष्ठषष्ठिकौ ॥
साष्टपञ्चाशविंशौ च तौ षट्त्रिंशद्द्विषष्टिकौ ।
त्रिंशतौ द्विचतुः पूर्वौ तथैव द्विचतुः परौ ॥
पञ्चाशतौ चतुश्चत्वारिंशत्सप्ततिकौ तथा ।
अष्टाभिरधिकौ चत्वारिंशत्सप्ततिकौ तथा ॥


 अथ कविर्बन्धबिन्दुमुपक्रमन् प्रतिजानीते-- अथेति । प्रयोजनमाह-- बुधमोदायेति । तत्र निमित्तमाह-- गर्भितोदाहृतिक्रममिति । क्रियाविशेषणमिदम् । यद्यपीति । सन्तीति शेषः । प्रौढिमेति । प्रौढतेत्यर्थ । प्रौढशब्दाद्भावे इमनिच्प्रत्ययः । कांश्चिदिति । ननु पूर्वपदे कानिचिदित्यनेनैव निर्वाहे अत्र काश्चिदित्यस्य वैयर्थ्यमिति चेदुच्यते । पूर्वेत्र कानिचित्पद लक्षणान्वयि अत्र काश्चित्पद बन्धान्वयीति विशेषः । अत एव छत्रचामरबन्धादीनां लक्षणं सुगमत्वान्नोक्तम्, नागबन्धादीनां लक्षणमुक्तम् । हंसमयूरक्षीरहारमच्छा(?)दिबन्धा नोक्ता इति ध्येयम् । तत्रादौ नागबन्धलक्षणमाह-- द्वितीयन्यान्त्यावित्यादिना । द्वितीयाक्षरान्त्याक्षरे इत्यर्थः । एवमग्रेऽपि । तुर्यत्रिंशतौ चतुर्थत्रिंशवर्णौ । 'चतुरश्छयतावाद्यक्षरलोपश्च' इति चतुःशब्दाद्यत्प्रत्ययः । अष्टमाष्टमाष्टमश्चाष्टत्रिंशच्चाष्टमाष्टत्रिंशतौ । अष्टन्शब्दात् 'तस्य पूरणे डट्' इत्यनेन जातस्य डटः 'नान्तादसख्यादेर्मट्' इति मडागमः । दिक् दशमो वर्णः । इन्द्रश्चतुर्दश । नाट्यचेष्टा षोडश । पीठमष्टादश । षट्चत्वारिंशविंशतीति । 'विंशत्यादिभ्यस्तमडन्यतरस्याम्' इति तमडागमस्य वैकल्पिकत्वाच्चत्वारिंशच्छब्दाड्डट् । साष्टपञ्चाशविंशौ चेति । अष्टपञ्चाशदष्टाविंशा