पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४.चित्रबिन्दुः]
४७
मन्दारमरन्दचम्पूः ।

प्रथमातृतीययोर्यथा--

सततालम्बितहरिणा भक्तजनेनाभवद्वनी सदृशी ।
विमलतरवारिभृत्या शरदि सरस्या च वाहिनी सदृशी ॥ २४ ॥
प्रचलद्दुन्दुभिर्नागलोकदेशैः समीकृतः ।
वाहिनीसनिवेशोऽयं भाति कृष्णमहीभुजः ॥ २५ ॥

प्रथमाचतुर्थ्योर्यथा--

अतिमञ्जुलशयनाभिर्गोपवधूभिः समीकृतः कृष्णः ।
निजसारूप्यं प्रददौ भक्तजनेभ्यः प्रसन्नरामेभ्यः ॥ २६ ॥


विस्मये च समुच्चये' इत्यनेकार्थादौ इति विस्मयार्थे ॥ २३ ॥ सततेति । वनी कर्त्री । 'स्त्री स्यात्काचिन्मृणाल्यादिर्विवक्षापचये यदि' इति कोशादल्पत्वविवक्षाया स्त्रीत्वम् । 'जातेरस्त्रीविषय--' इत्यादिना ङीष् । अल्पवनमित्यर्थः । उपवनमिति भावः । सततालम्बितहरिणा सततमालम्बिताः । कर्तरि क्तः । हरिणाः कुरङ्गा यस्या सेति आदन्तस्त्रीलिङ्गप्रथमैकवचनम् । अन्यत्र सततमालम्बितः । कर्मणि क्तः । हरिर्येन तेनेति । इदन्ततृतीयैकवचनम् । अत एव भक्तजनेन सदृशी अभवत् । 'तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम्' इति तृतीया । वाहिनी सेना कर्त्री । विमलतरवारिभृत्या विमलस्तरवारि खड्गो येषां ते भृत्याः भटाः यस्या सेति प्रथमैकवचनम् । अन्यत्र विमलतरस्यात्यन्तस्वच्छस्य वारिणो भृतिर्भरणं यस्यास्तयेति तृतीयैकवचनम् । सदृशी अभवदिति पूर्वेणान्वयः । शरदि शरदृतौ स्थितयेत्यर्थः । सरस्या कासारेण । 'उद्याने हरिणाः सर्वफलपुष्पलताद्रुमाः' इति वर्ण्यवर्ण्यप्रकरणे कविकल्पलतायां देवेश्वरोक्तेरुद्याने हरिणालम्बितत्वं बोध्यम् । 'कासारः सरसी सर' इत्यमरः । 'ऋषिः खड्गस्तरवारिः शस्त्रो भद्रात्मजश्च सः' इति त्रिकाण्डशेषः । 'सेना नदी च वाहिन्यौ' इति च ॥ २४ ॥ प्रचलदिति । कृष्णमहीभुजः कृष्णराजस्य वाहिनीसन्निवेशः सेनासन्निवेशः । कर्ता । प्रचलद्दुन्दुभिः प्रचलन्तो दुन्दुभयो यस्मिन् स इति इदन्तप्रथमैकवचनम् । अन्यत्र प्रचलन् संचलन् दुन्दुः राजसर्पो येषु तैरिति तृतीयाबहुवचनम् । अत एव नागलोकदेशैः पातालप्रदेशैः समीकृतो भाति । 'भा दीप्तौ' । लट् । 'अथ नागभृद्दुन्दुः' इति त्रिकाण्डशेषः । 'दुन्दुर्द्दुण्द्दुरहीरणौ' इति कमलाकरश्च ॥ २५ ॥ अतिमञ्जुलेति । कृष्णः कर्ता । अतिमञ्जुलशयनाभिः अत्यन्तं मञ्जुले शयः पाणिर्नाभिश्च यस्य तथोक्तं इति । इदन्तप्रथमैकवचनम् । अन्यत्र अतिमञ्जुलं शयनं सुरतं यासां ताभिरिति तृतीयाबहुवचनम् । अत एव गोपवधूभिः समीकृतः । प्रसन्नरामेभ्यः प्रसन्नानां रामाणामिभ्यः पतिः । यद्वा प्रसन्नाभी रामाभिरिभ्य आढ्य इति प्रथमैकवचनम् । अन्यत्र प्रसन्नो रामो दाशरथिर्येभ्यस्तेभ्य इति चतुर्थीबहुवचनम् । अत एव भक्तजनेभ्यः निजसारूप्यं साम्यं प्रददौ । भक्त