कुरुतमुदितमेनं मारुते चन्द्रसूर्यौ |
पृष्ठतो न्युपसर्गादेः राज्याद्यन्तसुयोजने । |
यथा--
ध्वस्ताघालीनिबद्धोरुगुणालीनिहते भवे । |
यथा वा--
यशोराजी नितान्तोरुसंपत्पालीनियोगतः । |
इनीदन्तपदैर्योगे रेफादिपदपृष्ठतः । |
यथा--
सुदानशालिनी राजत्सुजनप्रेयसी रमा । |
'कुरु तं उदितम्' इत्येकत्र । 'कुरुतम् उदितम्' इत्यन्यत्र । 'कुरुत मुदितम्' इत्यपरत्र पदच्छेदः । अर्थस्तु सुगम एव ॥ ११ ॥ न्युपसर्गादेरिति । नीत्युपसर्ग आदौ यस्य तस्येत्यर्थः । राज्याद्यन्तेति । राजिरादिर्येषा ते राज्यादय । आलिः अङ्गुलिः वलिः केलिः नीविः नाभिरित्यादयः शब्दा अन्ते येषां तेषामित्यर्थः । स्वावाद्यन्तेति । सुऔ इत्यादिप्रत्ययान्तेष्वित्यर्थः । ध्वस्ताघालीति । ध्वस्ता अघानां पापानामाली समूहो यस्यास्तथोक्तेति तनुविशेषणम् । 'कृदिकारादक्तिनः' इति पक्षे ङीष् । निबद्धा संबद्धा उरुगुणानामाली यस्या सेत्यपि तनुविशेषणम् । प्रथमैकवचनम् । पादविशेषणे तु द्विवचनम् । चरित्रविशेषणे तु ध्वस्ताघालीनि बद्धोरुगुणालीनीति पदच्छेदः । नपुंसकबहुवचनम् । हरेर्विष्णोस्तनुः कर्त्री । पादौ कर्तारौ । चरित्राणि कर्तॄणि । सदा हृदि गाताम् । 'गाङ् गतौ' इत्यस्मात्प्रार्थनायां लोट् । नित्यं बहु(सर्व)वचनान्तमिदं सर्वत्रान्वेति । प्रवर्ततामित्यर्थः । एवमेवोत्तरत्रापि ॥ १२ ॥ अपत्यानि कर्माणि । पादौ लक्ष्मीश्च कर्तृपदे । कुरुतामिति । परस्मैपदे लोटि मध्यम(प्रथम) पुरुषद्विवचनम् । अन्यत्रात्मनेपदे लोटि मध्यम(प्रथम)पुरुषैकवचनम् ॥ १३ ॥ इनीदन्तेति । स्त्रीप्रत्ययप्रकृतिकणिन्यादिप्रत्ययान्तपदैरित्यर्थः । भिन्नलिङ्गस्वौशसन्तसमन्वयादिति । लिङ्गभेदविशिष्टप्रथमैकद्विबहुवचनान्तपदान्वयादित्यर्थः । सुदानेति ।