पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४.चित्रबिन्दुः]
४१
मन्दारमरन्दचम्पूः ।

त्वामेव मित्रमहमम्बुरुहाक्षि मन्ये
किं तैर्भरन्ति सुहृदः खलु कुक्षिमन्ये ॥ ६ ॥

पादत्रये यथा-

नस्यं नयनविनाशं तनुते भुक्त्यात्मनापि न विना शम् ।
किंत्वज्ञानविनाशं तस्मादेतद्बुधोऽपि गृह्णाति ॥ ७ ॥

एकपादे यथा--

प्रथमसंगमगेहनिविष्टया सुदृढनीविनिबद्धकराम्बुजम् ।
सुशयितं धुरि भर्तुरवाङ्मुखं मदनकादनकातरया रयात् ॥ ८ ॥

समस्त्येन यथा--

विदलितकीचकवपुषं कीचकवपुषः सुतं च बल्लववेषम् ।
बल्लववेषाप्रियकरवेषाप्रियकरमद्य कलयामि ॥ ९ ॥


मित्राणि कुक्षि भरन्ति खलु तैः किम् । न किमपि प्रयोजनं भवतीत्यर्थः ॥ ६ ॥ नस्यमिति । नसायां नासिकायां साधु नस्यम् । सप्तम्यन्तात्स्वार्थे यत्प्रत्ययः । 'नसा नस्या च नासिका' इति त्रिकाण्डशेषः । 'तवकिरी' इत्यर्थः । नयनयोर्विनाशं तनुते आत्मना स्वेन नस्येनेति यावत् । विना भुक्त्यापि भोजनेनापि शं सुखं न तनुते । 'पृथग्विनानानाभिस्तृतीयान्यतरस्याम्' इति तृतीया । तथापीति कित्वर्थः । अज्ञानविनाश तनुते करोति । तन्द्रीमुत्सार्य जागरूकतामुत्पादयतीत्यर्थः । तस्माद्धेतोरेतन्नस्यं बुधोऽपि गृह्णाति ॥ ७ ॥ प्रथमेति । कश्चिन्नवोढायाः स्वीयाया वृत्तान्तं सख्ये ब्रवीति-- प्रथमं संगमगेहं सुरतगृहं प्रविष्टया अतएव मदनस्य कादनं कलहः । सुरतमिति यावत् । 'कदनं कादनं कलिः' इति कमलाकरः । तस्मिन्कातरयाधीरया । कान्तयेत्यर्थात् । सुदृढं यथा तथा नीवौ कटिवस्त्रबन्धे निबद्धं कराम्बुजं यस्मिन्कर्मणीति तथोक्तम् । अवाङ्मुखमिति क्रियाविशेषणम् । भर्तुर्धुरि पुरः सु अत्यन्तं शयितम् । भावे क्तः ॥ ८ ॥ विदलितेति । मदीये कीचकनिधने इदं पद्यम्-- विदलितानि कीचकानां वपूंषि येन तथोक्तम्, कीचकानां सरन्ध्रवेणूना वं ध्वनिं पुष्णातीति कीचकवपुट् तस्य वायोः सुत बल्लवस्य सूदस्य वेष इव वेषो यस्य स तथोक्तम् । बल्लववेषस्य गोपालरूपिणः कृष्णस्याप्रियकरो वेषः स्वरूपं येषा तेषामप्रियकरम् । अर्थाद्भीममित्यवगन्तव्यम् । अद्य नाट्यारम्भावसरे कलयामि ध्यायामीत्यर्थः । 'बल्लवौ सूदगोपालौ' इत्युभयत्रापि मञ्जरी । 'आकल्पवेषौ नेपथ्यम्' इत्यमरः ॥ ९ ॥