पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६
काव्यमाला ।

सभङ्गाभङ्गभेदेन तौ द्वौ च त्रिविधौ पुनः ।
नामगो धातुगावेतद्द्वयगाविति भेदतः ॥
शब्दभेदादर्शबोधे सभङ्गश्लेष इष्यते ।
शब्दाभेदेऽप्यनेकार्थबोधे चाभङ्ग इष्यते ॥

 नामगतसभङ्गश्लेषो यथा--

 ततः किल कलगीतप्रेयसी कलाज्यायसी गीतश्रेयसीनाम्नी प्रसादसीम्नि प्रियाख्यानप्रस्तावनायां नर्मसखीरिदमवादीत्--

'वरतालसदृक्षेण द्योलोकसुहृदावृतम् ।
शिरःफलसमूहेन मयालोकि महीतलम् ॥ १ ॥


ङ्गाभङ्गभेदेनेति । सभङ्गश्लेषाभङ्गश्लेषभेदेनेत्यर्थः । पुनस्तदुभयमपि विभजते-- तौ द्वाविति । एतद्द्वयगाविति । नामधातूभयगतावित्यर्थः ॥ सभङ्गश्लेषं लक्षयति-- शब्दभेदादिति । पदविभागादित्यर्थः । अर्थबोधेऽनेकार्थबोधे । तत्र पञ्चम्याः प्रयोज्यत्वमर्थः । तस्यार्थबोधेऽन्वयः । तथा च स्वनिष्ठैकार्थबोधप्रयोजकविभागभिन्नस्वनिष्ठविभागप्रयोज्यार्थबोधजनकत्वसबन्धेन शब्दविशिष्टशब्दयोगत्वं सभङ्गश्लेषलक्षणं बोध्यम् । उभयत्र स्वपदं शब्दपरम् । स्वं वरतालसदृक्षेणेति पदं तन्निष्ठो य एकविधोऽर्थबोधप्रयोजकविभागः 'वरताल-- सदृक्षेण' इति विभागस्तद्भिन्नः स्वनिष्ठो यो विभागः 'वरता--लसत्--ऋक्षेण' इति विभागस्तत्प्रयोज्यो योऽर्थबोधः । उत्तमत्वेन प्रकाशमाननक्षत्रयुक्त इति बोधस्तज्जनकत्वसबन्धेन तादृशशब्दविशिष्टो यः शब्दः 'वरतालसदृक्षेण' इति शब्दस्तत्संबन्धत्वं श्लेष इति लक्षणसंगतिः । विभागभिन्नविभागाप्रसिद्ध्यासभववारणायैकत्वमर्थबोधप्रयोजकविभागे विशेषणम् । पदानां कृत्यं तु सुगममेव । ननु विभागभिन्नविभागाप्रसिद्ध्या सुपर्वाण इत्यादावव्याप्तिरिति चेन्न । तादृशसबन्धेन शब्दविशिष्टशब्दसबन्धत्वसमानाधिकरणश्लेषत्वव्याप्यजातिमत्त्वस्य विवक्षितत्वात् । श्लेषत्वमादायाभङ्गश्लेषेऽतिव्याप्तिवारणाय श्रेषत्वव्याप्यत्वजातिविशेषणम् । अभङ्गश्लेषं लक्षयति-- शब्दाभेदेऽपीति । एकार्थबोधप्रयोजकविभागभिन्नविभागाभावेऽपीत्यर्थः । अनेकार्थबोधेऽन्यार्थबोधे । तथा च स्वनिष्ठैकार्थबोधप्रयोजकविभागभिन्नविभागाप्रयोज्यान्यार्थबोधजनकत्वविशिष्टशब्दसंबन्धत्वमभङ्गश्लेषलक्षणम् । एकार्थकघटादिपदघटितवाक्यवारणायान्यत्वमर्थविशेषणम् ॥ यथाक्रममुदाहरति-- नामगतसभङ्गश्लेषो यथेत्यादिना । कलगीतस्य गन्धर्वस्य प्रेयसी प्रिया । कलाभिर्ज्यायसी श्रेष्ठा । नर्मसखी क्रीडासखी । वरतालेति । वरतालसदृक्ष उत्तमतालवृक्षसदृशः । अन्यत्रोत्तमत्वेन प्रकाशमाननक्षत्रयुक्तः । तेन । अत एव द्योलोकस्यान्तरिक्षलोकस्य सुहृदा मित्रेण । आकाशलोकसदृशेनेति यावत् । गगनचुम्बितेनेति वा । शिरःफलसमूहेन