पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३.श्लिष्टबिन्दुः]
३५
मन्दारमरन्दचम्पूः ।

गोपीचन्दनलिप्तां तां गोपीचन्दनबुद्धयः ।
सांयात्रिकाः समादाय समीपेऽस्य समाययुः ॥ २६ ॥
निमज्जद्वारिधावत्र मध्वाह्वस्य महात्मनः ।
मुनेर्दशान्तवातेन तीरं प्रापोडुपं तदा ॥ २७ ॥
प्रगृह्यानन्दतीर्थस्तां प्रतिष्ठाप्य मुदान्वितः ।
नागासनस्य निकटेऽपूजयत्प्रतियातनाम् ॥ २८ ॥
पूजयत्यधुनाप्येनां तस्य शिष्यकुलोद्भवाः ।
अष्टौ मस्करिणः शुद्धा जानीहि रमणीमणे ॥ २९ ॥

 एवमसौ कलगीतस्तया सह सकलधरणीमण्डलमालोक्य तं गोपिकाकाभुकं प्रणम्य तदागतिवृत्तान्तं कान्तायै निवेद्य तेनानुगृहीतः स्वनगरमुपगम्य लीलागृहमध्यास्ते स्म ।

जलजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटे लम्पटेन ।
गुहपुरनिलयेन प्रोद्धृतः सारबिन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ॥

 इति श्रीमद्धटिकाशत[शत]घण्टाविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयोगीश्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मण कृष्णशर्मणश्चन्द्रदेवशर्मणश्च कृतौ मन्दारमरन्दे चम्पूप्रबन्धे सारबिन्दुर्द्वितीयः समाप्तिमगमत् ।


श्लिष्टबिन्दुः ।

अथाधुना श्लिष्टबिन्दौ श्लेषभेदान्प्रदर्शये ।
अनेकार्थस्फूर्तियोगः श्लेषः स द्विविधो मतः ॥


तियातना प्रतिच्छाया । प्रतिकृतिरर्च्या पुंसि प्रतिनिधिः' इत्यमरः ॥ २५ ॥ 'सांयात्रिकपोतवणिक्' इत्यमरः । अस्य रूप्यपीठपुरस्य ॥ २६ ॥ दशान्तवातेन वस्त्रान्तवायुना । 'दशावस्थादीपवर्त्योर्वस्त्रान्ते स्युर्दशा अपि' इति मेदिनी । 'उडुप तु प्लवः कोलः' इत्यमरः ॥ २७ ॥ प्रतियातना प्रतिमाम् ॥ २८ ॥ मस्करिणो यतयः ॥ २९ ॥ 'अधिशीङ्स्थासां कर्म' इति लीलागृहस्य कर्मत्वम् ॥ जलजनीति व्याख्यातम् ॥ इति मन्दारमरन्दव्याख्याया माधुर्यरञ्जन्याख्याया गूढकर्तृकाया सारबिन्दुर्द्वितीयः समाप्तः ॥

 अथेति । मङ्गलार्थेऽथशब्दः । श्लेषसामान्यलक्षणमाह–- अनेकार्थेति । अनेकार्थानां स्फूर्तिर्बोधो येन सोऽनेकार्थस्फूर्तिः शब्दस्तस्य योगो योजनम् । श्लेष इत्युच्यते इत्यर्थः । तथा च 'अनेकार्थबोधजनकशब्दयोगत्व श्लेषसामान्यलक्षणम्' । त विभजते-- स इति ॥ सभ