पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२.सारबिन्दुः]
३३
मन्दारमरन्दचम्पूः ।

नारायणात् । महाभारततात्पर्यनिर्णयकृतौ व्यासानुज्ञामाददे । हस्तिनपुरगतमठस्थः सङ्कल्पार्थमनल्पाकल्पया तरुणीरूपिण्या धरणीं भित्त्वागतया गीर्वाणतरङ्गिण्या प्रणुतोऽभूत् । कुरुक्षेत्रे स्वीयानि कुन्तीकुमारावस्थायां धृतान्यायुधानि कुन्तादीन्यन्तेवासिजनेभ्यो दर्शयामास । तत्र गङ्गोत्तमाङ्गेनाङ्गीकृतविप्ररूपेणाङ्गीचकार क्षणेन दत्तां भिक्षाम् । क्वचिच्चतुःसहस्रगुरुरम्भाफलानि त्रिंशत्कुम्भपूर्णपयसा सह परीक्षकेण दत्तानि बुभुजे । गानेन शुष्कतरुं सफलपुष्पमकरोत् । किं बहुना । सकलऋषिसमेतः शेषोऽपि त्रिविक्रमपण्डितपुण्डरीकशार्दूलादिसकलवादिजनजेतुः समस्तवेदार्थनिर्णयकर्तुरस्यानन्दतीर्थस्यानन्दतीर्थं श्रुत्वा निजलोकमासाद्य तत्फलं पृच्छद्भ्यः सनकादिभ्यस्त्रिदोषवर्जितमविकुण्ठितानन्दाभिवृद्धिकरं वैकुण्ठमेवैतद्व्याख्याश्रवणादिफलमभिदधे ।

कलं गात्रं नेत्रं कमलरुचिपात्रं दनुजजि-
द्गुणश्रेणीवाणी खलमतकृपाणीसहचरी ।
सतां हृद्या विद्या सरणिरनवद्याब्धिदुहितुः
पतिर्यस्योपास्यो हिमकरसमास्यो जयतु सः ॥ १६ ॥
मुहुर्मध्वं विध्वंसितखलदुरध्वं सुमनसां
मनोवृन्दे संदेहहरमिह वन्दे गुणनिधिम् ।
रमानाथे नाथे निरतमपि नाथे मम हरौ ।
दृढा भक्तिर्भुक्तिस्त्विह भवतु मुक्तिस्तत इति ॥ १७ ॥


गङ्गोत्तमाङ्गाः शिवः । क्षण उत्सवः । बुभुजे । 'भुजोऽनवने' इत्यात्मनेपदम् । आनन्दतीर्थमानन्दकरशास्त्रम् । अविकुण्ठितोऽक्षतः ॥ कलमिति । यस्य गात्रं शरीरं कललक्षणवत् । कलाशब्दादर्शआद्यच् । मधुरं वा । नेत्रं कमलरुचेः पात्रम् । दनुजजितो विष्णोर्गुणश्रेणी यस्यां तथोक्ता वाणी खलानां मतस्य कृपाणीसहचरी कर्तरीसखी । विद्या अनवद्या अत एव सता हृद्या अब्धिदुहितुर्लक्ष्म्याः पतिरुपास्यः स हिमकरस्य सममास्यं यस्य तथोक्तः । जयतु । लोट् ॥ १६ ॥ मुहुरिति । विध्वंसितः खलानां दुरध्वो दुर्मार्गो येन तथोक्तम् । सुमनसा सतां मनोवृन्दे यः सन्देहस्तं हरतीति तथोक्तम् । गुणानां निधिं मध्वं वन्दे । किं चेत्यप्यर्थः । रमाया नाथे स्वामिनि अनाथे न विद्यते नाथो यस्य तस्मिन् । अस्य ब्रह्मणो रुद्रस्य वा नाथे वा । 'अकारो ब्रह्मविष्ण्वशकमठे