पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०
काव्यमाला ।

अथात्मजे तातरुचिं विवित्सुर्दष्टुं गतः सर्पमयः सुरारिः ।
तदङ्गुलीपिष्टतनुस्तताम सुदुर्लभोऽस्मिन्पितृमार्गगामी ॥ ८ ॥

 अथ कदाचिद्ग्रहणनिग्रहणप्लवनजलविहारकन्दुकक्रीडादिषु निजतेजःपराजितवयस्यजनः पाठावसरे किमन्यमनस्कतया ब्रवीषीति भाषणे ततः स्खलनोज्झितानधीतश्रुतिततिपठनकुतूहलिताय मुखवायुसंस्पर्शनिस्तशिरःशूलायोपाध्यायाय समुचितामच्युतभक्तिरूपिणीं गुरुदक्षिणां वितीर्य दुष्टनिग्रहाय विष्णुगुणप्रख्यापनाय च तेनानुज्ञामाप्याचिरादेव दुर्जनतर्जनकारिणी दुर्गा भवेदतोऽहमाश्रमवरमासाद्य दुर्मतानि निराकृत्य हरिमाहात्म्यं प्रकटीकरोमीति विचिन्त्य जगद्गुरुपि गुरुमन्विष्यन्द्वापरान्ते पाण्डवनिशान्ते कृष्णाकरसिद्धशुद्धान्धोजग्ध्या शुद्धान्तःकरणमन्तकाले गुरुणा सोऽहं ब्रह्मेति मतमनादृत्य माधवं भजेत्युपदिष्टमच्युतप्रेक्षमालक्ष्य वराश्रमाप्त्यै परिचरंस्तच्छ्रवणखिन्नहृदयावात्मानं वन्दमानावाश्वास्य पितराविदमवादीत्--

'नमस्क्रिया न कर्तव्या भवद्भ्यां सेवकाय मे ।
कृता नतिर्हि सैवाद्य ममानुज्ञाश्रमाप्तये ॥ ९ ॥

इति तेन निरुत्तरीकृतौ बहुखिन्नौ स्वगृहं समीयतुः ।
पुनरेव पिता सुताननं हृदि संस्मृत्य ययौ सुतान्तिकम् ॥ १० ॥

 बहुप्रकारैर्वराश्रमवरणाय निवारितोऽपि स्वसाधकवचोभिः पितरमेव याचमानस्ततस्तव जनन्यनुमतिरेव ममानुमतिरिति पित्रोक्तः कदाचिदालयमागत्य समाश्वास्य मातरं तदाज्ञामादाय यतित्वमासाद्य पूर्णबोधाभिधामभजत् । ततः स्वगुणानुरूपे मध्वानन्दतीर्थाभिधाने च


वासुदेवेति । इदं पदचतुरूर्ध्ववृत्तम् ॥ ७ ॥ अथेति । सर्पमयः सर्परूपः सुरारिर्दैत्यः । आत्मजे वायुपुत्र इत्यर्थः । तातस्य वायोः रुचिं विवित्सुर्वेत्तुकामः सन् । 'विद ज्ञाने (विचारणे)' इत्यस्मात्सन्नन्ताकर्तरि उप्रत्ययः । द्रष्टुं वासुदेवमिति शेषः । गतः सन् तस्य वासुदेवस्याङ्गुल्या पिष्ठा तनु कायो यस्य तथोक्तः सन् तताम । अस्मिन्कलौ पितृमार्गगामी सुदुर्लभः ॥ ८ ॥ निशान्ते गृहे । कृष्णाया द्रौपद्याः । करेण सिद्धमत एव शुद्वमन्धोऽन्न तस्य जग्ध्या भोजनेन । 'भिस्सा स्त्री भक्तमन्धोऽन्नम्' इति, 'जग्धिस्तु भोजनम्' इति चामरः । अन्तःकरणं मनः ॥ ९ ॥ १० ॥ नमते नमस्कारिणे । अच्युतबुद्धये