पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०
काव्यमाला ।

चेटीगतिश्च गायत्री या लगौ छिदिनैर्मृगैः ।
भ्नज्नस्नन्भगगैरर्वार्वार्वेषुभिदि रञ्जनम् ॥
लालिनी स्याद्रसजगा वालिका तु रनौ सगौ ।
तन्वी शरमुनीनैश्छिद्भस्मभनयैर्युता ॥

इति समवृत्तप्रकरणम् ।

नगणद्वितयं त्वादौ सप्त रेफास्ततो यदि ।
चण्डवृष्टिप्रयाताख्यो दण्डकश्चतुरङ्घ्रिकः ॥
नद्वयादष्टरैरर्णो नवरैरर्णवो मतः ।


 अथ दण्डकनिरूपणं कुर्वन्नादौ चण्डवृष्टिप्रयातलक्षणमाह--- नगणेति । अदौ नगणद्वितयं [नगण] द्वयं ततः सप्त रेफा सप्त रगणा यदि, तर्हि चण्डवृष्टिप्रयाताख्यो दण्डको भवति । ननु सामान्यलक्षणमनुक्त्वा विभक्तभेदलक्षणकथनमयुक्तमिति चेदाह-- दण्डकश्चतुरङ्घ्रिकः इति । अङ्घ्रित्व चात्रैकोनसहस्रवर्णाधिकवर्णानात्मकत्वे सति सप्तविंशतिवर्णन्यूनवर्णानात्मकत्वे सति वर्णात्मकत्वम् । वृत्तपादातिप्रसङ्गवारणाय द्वितीयं दलम् । गद्यादिवारणायाद्यं दलम् । ध्वनिशब्दवारणाय वर्णात्मकत्वम् । यद्यपि एकन्यूनसहस्रवर्णाद्यात्मके गद्येऽतिप्रसङ्गस्तथापि वर्णात्मकत्वमित्यस्य नगणद्वयाव्यवहितोत्तररगणसजातीयगणघटितवर्णात्मकत्वविवक्षणान्न दोषः । साजात्य च गणविभाजकतावच्छेदकमत्त्वादिना । अव्यवहितोत्तरत्वनिवेशान्न पादाभासेऽतिप्रसङ्गः । तथा चैतादृशपादचतुष्टयवत्त्वं सामान्यलक्षणम् । प्रथमाङ्घ्रिसदृशद्वितीयाङ्घ्रिसदृशतृतीयाङ्घ्रिसदृशचतुर्थाङ्घ्रिमत्त्वमिति निष्कर्षः । तेन विषमिते दण्डकाभासे नातिप्रसङ्गः । सादृश्यं च स्वविशिष्टगणमात्रघटितत्वेन । गणे स्ववैशिष्ट्यं च स्वघटकगणगतसख्याक्रमोभयविशिष्टत्वबन्धेन । नन्वर्धसमे विषमे च दण्डकेऽव्याप्तिरिति चेन्न । तस्यालक्ष्यत्वात् । प्राचीनै रामकीर्तिगोमानसादिभिः समपादचतुष्टयस्यैव दण्डकत्वेनोक्तत्वादिति संक्षेपः । इत्थं च नगणद्वयोत्तररगणसप्तकघटितपादचतुष्टयवत्त्वं चण्डवृष्टिप्रयातस्य लक्षणं बोध्यम् । मादिगणद्वयोत्तररगणसप्तकघटिते दण्डकाभासेऽतिव्याप्तिवारणाय नगणद्वयोत्तरत्व रगणसप्तके विशेषणम् । वृत्तेऽतिव्याप्तिवारणाय घटितान्त पादविशेषणम् । दण्डकार्धवारणाय चतुष्टयपदम् । एवमैवाग्रेऽपि लक्षणं परिष्करणीयम् । उदाहरणं तु विस्तरभयान्न निरूपितं ग्रन्थकारेण । वयं त्वस्य ब्रूमहे--

कमलनयन केशवानन्त गोविन्द विष्णो हरे पाहि मां सर्वदा सर्वथा
परमपुरुष भोर्भवाम्भोधिमध्ये निमज्जन्तमत्यन्तमाम्नायवेद्योत्तम ।
कथमिह भुवि मामनाथ भवत्पादपद्मार्पितस्वान्तभृङ्ग वदोपेक्षसे
त्रिभुवनजनपालने नित्ययुक्तो भवान्सद्दयानीरधे श्रीनिधे कान्तिधे ॥

एवमन्यत्राप्युदाहरणान्युन्नेयानि ॥ नद्वयादिति । सर्वत्रान्वेति । अष्टररष्टमी रगणैः ॥