पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१.वृत्तबिन्दुः]
१५
मन्दारमरन्दचम्पूः ।

भृगुकुलदीपे तत्र रमापे विनिहितचित्ते श्रीभिरमत्ते ।
अवनितलेऽस्मिन्राजनि तस्मिन्भवति समृद्धं स्माशिशुवृद्धम् ॥ ३७ ॥

स्वागतं रो नभगगाः पादमध्ये यतिर्नहि ॥

एकदा सकलराजनुताङ्घ्रिर्वाजिपेयसवनं स विधातुम् ।
आरभन्भृगुकुलोत्तममेनं सप्ततन्तुविबुधं बत वव्रे ॥ ३८ ॥

तद्भुजंगप्रयातं यौ यौ यतिर्न पदान्तरे ।

नृपः कारयामास तस्यासनार्थं सुपीठं स रूप्योत्तरं त्वष्टृवर्गम् ।
दिवाकृत्सहस्रप्रभाभासमानं समस्तैश्चिरत्नैश्च रत्नैर्विचित्रम् ॥ ३९ ॥

मालिनी स्यान्नन्मययाः शिवमूर्तिस्वरैर्यतिः ॥

भृगुपरिवृढमेनं पीठमारोप्य मेनं
नतिनुतिततिपूर्वं याचयामास पूर्वम् ।
भजकसुजनबन्धो ज्ञानसिन्धो मुदन्धो
भवतु पुरविधानं रूप्यपीठाभिधानम् ॥ ४० ॥


गौ गुरुद्वयम् ॥ भृगुकुलेति । भृगुकुलस्य दीपे प्रकाशके रमापे लक्ष्मीपतौ तत्ररामे विनिहितचित्ते स्थापितचेतसि श्रीभिः सपद्भिरमत्तेऽनुद्धते तस्मिन्रामभोजेऽस्मिन्नवनितले एतस्मिन्भूभागे राजनि सति आशिशुवृद्धमाबालवृद्धं समृद्धमृद्धिमद्भवति स्म । स्मयोगे भूते लट् ॥ ३७ ॥ स्वागतमिति । नामैतत् । रः रगणः नभगगाः नगणभगणगुरुगुरवः ॥ एकदेति । कदाचिदित्यर्थः । सकलै राजभिर्नुतौ स्तुतावङ्घ्री यस्य तथोक्तः स रामभोजः वाजिपेयसवन वाजपेयाभिधयज्ञं विधातुमारभन् सन् भृगुकुलस्योत्तममेनं राम सप्ततन्तौ मखे विबुधं देवं वव्रे । 'वृञ् वरणे' इत्यस्माल्लिट् । अस्मिन्यज्ञे त्वमेव देवो भवेति याचयामासेति भावः ॥ ३८ ॥ तदिति । यौ यौ यगणचतुष्टयम् । भुजंगप्रयातमिति नाम ॥ नृप इति । स नृपः तस्य रामस्य आसनार्थं त्वष्टृवर्गं वर्धकिसमूहम् । 'हृक्रोरन्यतरस्याम्' इति द्वितीया । दिवाकृतां सूर्याणां सहस्रमिव प्रभाभिर्भासमानः चिरतनै पुराणैः । अकृत्रिमैरिति भावः । समस्तै रत्नैर्विचित्रं रूप्योत्तरं रूप्यपदोत्तरस्थितं सुशोभनपीठम् । रूप्यपीठमित्यर्थः । कारयामास ॥ ३९ ॥ मालिनीति । नन्मययाः नगणनगणमगणयगणयगणाः । शिवमूर्तिस्वरैरष्टभिः सप्तभिः ॥ भृग्विति । माया लक्ष्म्या इन प्रभु पूर्वं पुरातनं भृगूणां परिवृढं नेतारमेनं रामम् । रुह धातोर्गत्यर्थकत्वेन 'गतिबुद्धि--' इत्यादिना रामस्य कर्मत्वम् । पीठमारोप्य आरोपयित्वा नतीनां नुतीनां ततिः पूर्वा यस्मिन्निति क्रियाविशेषणम् । भजकानां सुजनानां बन्धो ज्ञानस्य सिन्धो मुदामानन्दानामन्धः । पुरवि