पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला ।

(प्रपां निर्दिश्य ।)

सा निर्जनायां विहिता प्रपायां कान्ता कुचान्तं परिदर्शयन्ती ।
पान्थस्य यूनः कुरुते करेऽम्भोधारां मुखे सामिदृगन्तरीतिम् ॥ १७ ॥

उपेन्द्रवज्रा जतजा गौ बाणऋतुभिर्यतिः ॥

इयं कुरङ्गीनयनाम्रशाखां विभाति वामेन करेण धृत्वा ।
पदान्तलालम्बितवेणिवल्ली मनोऽस्य चाक्रष्टुमिवानताङ्गी ॥ १८ ॥

मिश्रा तूपेन्द्रमाला स्यादुपजातिं च तां विदुः ।

यथा यथा पश्यति तन्मुखेन्दुं पातुं प्रवृत्तो विरलाङ्गुलिः सन् ।
तथा तथा प्रेमरसेन साकं सव्रीडहासा तनुतेऽम्बुधाराम् ॥ १९ ॥

शालिनी मतता गौ च यतिः श्रुतितुरङ्गमैः ॥

धन्येयं यत्कामिनी पान्थयूनः पीयूषाभैरम्बुभिः शीतशीतैः ।
सप्रेमोत्थैः सामिनेत्रान्तपातैः प्रीतिं पुष्णात्युच्चलद्भ्रूविलासैः ॥ २० ॥


र्यतिः । अत्रापि मण्डूकप्लुत्या नवेत्यन्वेति । सेति । पुरतो दृश्यमानेत्यर्थः । निर्जनायां जनरहितायां प्रपायां पानीयशालायां विहिता स्थिता सा कान्ता कुचान्तं स्तनाग्रं परिदर्शयन्ती सती यूनस्तरुणस्य पान्थस्य करे हस्ते अम्भोधारामुदकधारां मुखे सामि दृगन्तरीति किंचित्तिर्यक्प्रवृत्तनेत्रान्तरीति कुरुते । वर्तमाने लट् ॥ १७ ॥ उपेन्द्रवज्रेति । यत्र जगणतगणजगणा गुरुद्वयं च तथा पञ्चभिः षड्भिश्च यतिश्चेदुपेन्द्रवज्रावृत्तम् । अत्रापि नवेत्यनुषज्यते ॥ इयमिति । पदान्ते चरणान्ते लालम्बिता अतिशयेन लम्बिता वेणिर्वल्लीव यस्याः सा तथोक्ता । 'लबि अवस्रंसने च' इत्यस्माद्यङ्ङन्तादधिकरणे क्तः । कुरङ्गीनयना इयं वामेन करेण आम्रस्य रसालस्य शाखां धृत्वा अस्य पान्थस्य मनः आक्रष्टुमिवेत्युत्प्रेक्षा । आनताङ्गी सती नम्राङ्गी सती विभाति । 'भा दीप्तौ' लट् ॥ १८ ॥ मिश्रेति । तामुपेन्द्रमालाम् । बुधा इति शेषः ॥ यथेति । पातुं प्रवृत्तः पान्थो विरला अङ्गुलयो यस्य तथोक्तः सन् तस्याः कान्ताया मुखमिन्दुरिव तं यथा यथा पश्यति तथा तथा सव्रीडहासा त्रपास्मिताभ्यां सहिता कान्ता अम्बुधारामुदकधारां प्रेमरसेन साकम् । सहयुक्तेऽप्रधाने तृतीया । तनुते । 'तनु विस्तारे' इत्यस्माल्लट् ॥ १९ ॥ शालिनीति । मतता मगणतगणतगणाः । गौ च गुरुद्वयमपि । श्रुतितुरङ्गमैश्चतुर्भिः सप्तभिर्यतिः । यत्र तद्वृत्त शालिनीनामकमित्यर्थः ॥ धन्येति । इयं कामिनी यद्यस्मात् पीयूषाभैरमृताभैः शीतशीतैरत्यन्तशीतैः । अतिशयार्थे वीप्सा । अम्बुभिः सप्रेम यथा तथोत्थैः सामिनेत्रान्तपान्तैः तिर्यक्प्रवृत्तनयनान्तवीक्षणैः । 'हेतौ' इति तृतीया । उच्चलन्त्योर्भ्रुवोर्विलासैः पान्थयूनः पथिकतरुणस्य । विशेषणोत्तरपदो विशेषणोभयपदो वा कर्मधारयः । प्रीतिं पु