पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/२१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९४
काव्यमाला ।

क्रूरस्वराः काकवृकवराहोष्ट्राश्च गर्दभाः ।
बलिष्ठा विष्णुगरुडसत्प्रतिज्ञा यमादयः ॥
सुरूपाः कृष्णनकुलनलकूबरमन्मथाः ।
दुःसहाः कामतापादिप्रतापा दुर्वचस्तपः ॥
मधुराः स्युर्विदग्धोक्तिकान्ताधरशशित्विषः ।
इत्थमेते वर्णनीयाः प्रबन्धेषु यथोचितम् ॥
अथ वक्ष्यामि सर्वेषां कवीना समयं स्फुटम् ।
सतोऽपि चानिबन्धः स्यादसतोऽपि निबन्धनम् ॥
नियमेन निबन्धश्च विकल्पेन निबन्धनम् ।
एवं कवीनां समयश्चतुर्धा परिकीर्तितः ॥
वस्तुनः सतोऽप्यनिबन्धनं यथा--
अयने चन्द्रिकासंपत्पक्षयोः शुक्लकृष्णयोः ।
वसन्ते मालतीपुष्पं कामिदन्तेषु रक्तता ॥
फलपुष्पे चन्दने च फलं चाशोकपादपे ।
दिवा विकासः कुमुदे वर्षाकाले च मल्लिका ।
न वर्णयेत्सतोऽप्येतान्प्रबन्धेषु कदाचन ॥
अथासतो वस्तुनो निबन्धनं निरूप्यते--
हंसे कीर्तौ च शुभ्रत्वं दार्ढ्य दुष्कीर्तिपापयोः ।
अञ्जलिग्राह्यता कुम्भपूर्यत्वं शशिदीधितेः ॥
रत्नानि यत्र तत्राद्रौ कमलानि नदीष्वपि ।
मन्दाकिन्यां जलेभादिहंसाः सर्वजलाशये ॥
ज्योत्स्नापानं चकोराणां प्रतापे रक्ततोष्णते ।
ध्वान्तस्य पुष्टिर्ग्राह्यत्वं लेपनं सूचिभेद्यता ॥
विश्लेषः कोकयो रात्र्यां रक्तत्वं क्रोधरागयोः ।
कान्तामध्येऽप्यदृश्यत्वं समुद्राणां चतुर्थता ॥
नियमेन निबन्धनं यथा--
बहुकालस्थितस्यापि शिवचन्द्रस्य बालता ।
मनुष्या मौलितो वर्ण्या देवाश्चरणतस्तथा ॥