पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/२०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११.शेषबिन्दुः]
१८९
मन्दारमरन्दचम्पूः ।

(रत्नावली--)
रत्नानां संख्यया पद्यैर्युक्ता रत्नावली मता ।
(पञ्चाननावली--)
पद्यैश्च पञ्चभिर्युक्ता प्रोक्ता पञ्चाननावली ।
आख्यायिकायां शृङ्गारेऽप्युद्धृता रचना मता ॥
कथायां नाटकादौ च न रौद्रेऽप्यधिकोद्धताः ।
अन्येषु च प्रभेदेषु रचना स्याद्यथोचितम् ॥
इति काव्यप्रकरणम् ।
अथात्र वर्ण्यावर्ण्यानि प्रबन्धेषु ब्रुवे स्फुटम् ।
वर्ण्यो मुख्यतया नेता लोकोत्तरगुणोत्तरः ॥
तेन कर्तुः प्रबन्धस्य प्रतिष्ठा महती भवेत् ।
कुलाचारयशः शौर्यत्यागशीलादिवर्णनम् ॥
क्रियते नायकस्यैव यत्तदेवातिसंमतम् ।
अथ वा तद्विरुद्धस्य वर्णयित्वा बहून्गुणान् ॥
तज्जयान्नायकोत्कर्षवर्णनं च मतं क्वचित् ।
घटते नेतरि द्वेधा स्वतःसिद्धेन कल्पिते ॥
नृपे कीर्तिप्रजारागप्रतापाज्ञानयक्षमाः ।
विवेकारिपुरीदाहधर्मसंग्रामपूर्वकाः ॥
कुमारे खुरलीशस्त्रबलशास्त्रकलादयः ।
महिष्यां रूपलावण्यत्रपाशृङ्गारमन्मथाः ॥
चातुर्यप्रेमदाक्षिण्यशीलमानमुखादयः ।
मन्त्री भक्तः स्वदेशीयोऽनुद्धतो बुद्धिमान्क्षमी ॥
सेनाधिपः स्वामिभक्तो धैर्यवान्विजयी रणे ।
पुर्यां प्रसादपरिखातोरणाध्वप्रपाध्वजाः ॥
वप्राट्टारामकुलटावेश्यावापीसतीमुखाः ।
देशे द्रव्यजनाधिक्यनदीमातृकतादयः ॥