पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/२०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११.शेषबिन्दुः]
१८७
मन्दारमरन्दचम्पूः ।

गुणीभूतव्यङ्ग्यमिति स्याद्व्यङ्ग्यस्याप्रधानतः ।
अव्यङ्ग्यमपि यच्चारु तत्काव्यं चित्रमिष्यते ॥
शब्दचित्रं चार्थचित्रमुभयं चेति तत्त्रिधा ।
सोदाहृतय एतेषां भेदाः पूर्वं प्रकाशिताः ॥
शरीरं तस्य शब्दार्थौ जीवितं व्यङ्ग्यवैभवम् ।
हारादिवदलंकारास्तेऽनुप्रासोपमादयः ॥
शौर्यादय इव प्रोक्ताः श्लेषकान्त्यादयो गुणाः ।
आत्मोत्कर्षावहास्तत्र स्वभावा इव रीतयः ॥
शोभामाहार्यकीं प्राप्ता वृत्तयो वृत्तयो यथा ।
पदानुगुण्यविश्रान्तिः शय्या शय्येव संमता ॥
रसास्वादप्रभेदाः स्युः पाकाः पाका इव स्थिताः ।
प्रख्याता लोकवदियं सामग्री काव्यसंपदः ॥
लक्ष्यलक्षणसंयुक्ता इमे पूर्वं प्रकीर्तिताः ।
महाकाव्यं चोपकाव्यमिति तद्द्विविधं पुनः ॥
नगरार्णवशैलर्तुचन्द्रार्कोदयवर्णनैः ।
उद्यानसलिलक्रीडामधुपानरतोत्सवैः ॥
विप्रलम्भैर्विवाहैश्च कुमारोदयवर्णनैः ।
मन्त्रद्यूतप्रयाणादिनायकाभ्युदयैरपि ॥
एतैरुपनिबद्धं यत्तन्महाकाव्यमिष्यते ।
एषामष्टादशानां यैः कैश्चिन्न्यूनमपीष्यते ॥
सर्गबन्धो महाकाव्यमिति केचित्प्रचक्षते ।
असर्गबन्धमपि च महाकाव्यमितीष्यते ॥
गीततालानुबद्धं यदुपकाव्यमितीर्यते ।
उपकाव्यं तु बहुधा वक्ष्ये तानि च कानिचित् ॥
(आख्यायिका--)
कविचारित्रसहितं नरपालकथान्वितम् ।
विचित्रवर्णरचनासमासैस्तु मनोहरम् ॥