पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/२०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८६
काव्यमाला ।

कथानुग्रहयोगाच्च विवक्षावशतः कवेः ।
अन्योन्यजन्यजनका रसा भावा भवन्त्यमी ॥
(प्राचीनम्--)
युधि कुपितकृतान्तस्फूर्तिमानाविलाक्षो
दशदिशि दशकण्ठस्त्यक्तवान्वारिदास्त्रम् ।
तडिति जनकपुत्र्याः साम्यमालोकमान-
स्त्यजति न पवनास्त्रं राघवः खिन्नपाणिः ॥
अलंकारे च रुचिरे चित्तविश्रामकारिणि ।
अलंकारस्य मुख्यत्वं गौणत्वं रसभावयोः ॥
अत्यन्तसुकुमारौ तु शृङ्गारकरुणौ मतौ ।
हास्याद्भुतावुभौ किंचित्सुकुमारौ प्रकीर्तितौ ॥
अत्युद्धतरसौ रौद्रबीभत्सौ परिकीर्तितौ ।
ईषत्प्रौढौ समाख्यातौ रसौ वीरभयानकौ ॥
इति रसदोषादोषप्रकरणम् ।
काव्यं हि यशसेऽर्थाय शिवेतरनिवृत्तये ।
कान्तावदुपदेशाय परनिर्वृतये क्षणात् ॥
सालंकारगुणौ काव्यं शब्दार्थौ दोषवर्जितौ ।
तथा कवीनां सभयानुरोधेन निबन्धितम् ॥
ईदृशं द्विविधं काव्यं श्रव्यदृश्यविभेदतः ।
श्राव्यं तु त्रिविधं ज्ञेयं गद्यपद्योभयात्मना ॥
अपादः पदसंघातो गद्य पद्यं चतुष्पदम् ।
गद्यपद्यात्मकं काव्यं चम्पूरित्यभिधीयते ॥
दृश्यं तु दशधा प्रोक्तं नाटकादिविभेदतः ।
सर्वध्वनिर्गुणीभूतव्यङ्ग्यं चित्रमिति त्रिधा ॥
वाच्यातिशायि व्यङ्ग्यं यत्काव्यं ध्वनिरितीर्यते ।
काव्यं तु कथितं व्यङ्ग्ये वाच्यादनतिशायिनि ॥