पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०.व्यङ्ग्यबिन्दुः]
१४५
मन्दारमरन्दचम्पूः ।

पूर्वावस्थानुवृत्तिश्च विगते सति वस्तुनि ।
कथ्यते चेद्द्वितीयं तु पूर्वरूपमुदाहृतम् ॥
प्राचीनम्--
व्याख्याता स निशि कदाचन प्रदीपे
सशान्ते पुनरपि वाचयाबभूव ।
शिष्यान्स्वान्पुरुकरुणाम्बुधिर्निजाङ्घ्रे-
रङ्गुष्ठस्फुटनखरान्तरोचिषैव ॥ १८० ॥
(अथ तदुणः--)
तद्गुणः स्वगुणत्यागानन्तरान्यगुणग्रहः ।
अधरप्रभया कान्तानासामुक्तारुणाभवत् ।
(अथ मीलितम्--)
मीलितं यत्र सादृश्याद्भेद एव न लक्ष्यते ॥
नालक्षि कज्जलं नेत्रे नीलोत्पलदलप्रभे ॥ १८१ ॥
(अथातद्गुणः--)
अतद्गुणः संगतान्यगुणास्वीकार उच्यते ।
घनमण्डलसक्तापि ते कीर्तिः शशिसच्छविः ।
(अथानुगुणः--)
पूर्वस्थितस्वीयगुणोत्कर्षश्चेदन्यवस्तुनः ।
संनिधानवशात्तत्रानुगुणालंकृतिर्मता ॥
लभते रक्तिमोत्कर्षं लीलाम्भोजं करांशुभिः ॥ १८२ ॥
(अथ सामान्यः--)
व्यावर्तको विशेषश्चान्योन्यं यत्र न लक्षते ।
सादृश्यात्तत्र सामान्यमलंकारं विदुर्बुधाः ॥
कीर्तावुज्जृम्भितायां ते जनैर्नालक्षि जाह्नवी ।
(अथ पिहितम्--)
पिहितं चेत्परोदन्तं ज्ञात्वा साकूतचेष्टया ।
प्रकाशस्तत्पुरस्तस्या गूढस्य क्रियते यदि ॥
तल्पं सा कल्पयामास प्रेयसि प्रातरागते ॥ १८३ ॥

१९