पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०.व्यङ्ग्यबिन्दुः]
१३३
मन्दारमरन्दचम्पूः ।

उभयोः सदृश रूपं चातुर्यं विजनस्थितिः ।
अहो तथापि दैवेच्छा नाभूत्सङ्गसुखं तयोः ॥ १२४ ॥
(अथासंभवः--)
असंभवोऽर्थनिष्पत्तेरसंभाव्यत्वकीर्तनम् ॥
को वेद बालः फालाक्षचापमारोपयेदिति ।
(अथ विभावना--)
विनापि कारणं कार्यस्योत्पत्तिः स्याद्विभावना ।
अनादृतोऽपि मीनाक्ष्या तामेवासौ निषेवते ।
विभावना परा धर्मविकलेनापि हेतुना ॥
उत्पत्तौ यदि कार्यस्य सबन्धविकलेन वा ।
अदृढैः कौसुमैः शस्त्रैरजयज्जगदात्मभूः ॥ १२५ ॥
कार्योद्भवश्चेत्प्रत्यूहे सत्यप्यन्या निदर्शना ।
पत्यौ सुप्तेऽपि पार्श्वे सा मामाश्लिष्यति कामिनी ।
विभावना चतुर्थी चेत्कार्योत्पत्तिरकारणात् ॥
इन्दीवरदलात्पश्य निःसरन्ति सिताः शराः ।
विरुद्धहेतोः कार्यं चेत्पञ्चमी स्याद्विभावना ।
कर्पूरपङ्कः(ङ्काः ?) कञ्जाक्षीं हन्त संतापयन्ति ताम् ।
षष्ठी विभावना प्रोक्ता कार्यात्कारणजन्म चेत् ॥
प्राचीनम्--
अम्बुजमम्बुनि जातं क्वचिदपि न च जातमम्बुजादम्बु ।
बाले नवरतिकाले तवाक्षिसरोजाद्विगलितमम्बु ॥ १२६ ॥
(अथासंगतिः--)
भिन्नाधिकरणत्वे तु कार्यहेत्वोरसंगतिः ।
कृष्णे बिभ्रति भूभारं विनम्रा जनमौलयः ।
अन्यत्र करणीयस्य वस्तुनोऽन्यत्र चेद्यदि ।
करणं तत्र विबुधाः द्वितीयासंगतिं विदुः ।
राजन्प्रत्यर्थिवामाङ्गी कङ्कणं नयनेऽकरोत् ॥ १२७ ॥