पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३०
काव्यमाला ।

(अथ परीकरः--)
परीकरः परिकरः साभिप्राये विशेषणे ।
दद्यात्ते संपदो राजन् केशवः कमलापतिः ॥
(अथ व्याजस्तुतिः--)
स्तुत्या वा गम्यते निन्दा निन्दया गम्यते स्तुतिः ।
व्याजस्तुतिरसौ यत्र स्तुत्या वा गम्यते स्तुतिः ॥
त्वामेव प्रेयसीं नूनं जानामि मम दूतिके ।
त्वदीयाभिरनेकाभिः क्रियाभिर्यत्स तोषितः ॥ १११ ॥
साध्वि धिक् त्वां वृथा भर्तृसेवाशुष्कासि संततम् ।
दृशापि न स्पृशस्येनं तादृशं सरसं विटम् ॥ ११२ ॥
सुकृतं कृतमेतेन किं पद्मेन न विद्महे ।
यतः शातोदरीपादसमतासुखमीहते ॥ ११३ ॥
(अथ व्याजनिन्दा--)
व्याजनिन्दा मता निन्दा निन्दया गम्यते यदि ।
विधिरेव विनिन्द्योऽयं किमागस्तव सुन्दरि ।
कन्दर्पकल्पानीदृक्षान्पल्लवान्निर्ममे यतः ॥ ११४ ॥
(अथाक्षेपः---)
आक्षेपोऽपह्नवाद्भिन्नो निषेधो जनरञ्जनः ॥
स चाभासितसंगुप्तभेदाद्द्वेधा प्रकीर्तितः ॥
शुद्धाक्षेपस्तृतीयः स्यादिति केचित्प्रचक्षते ।
शुद्धाक्षेपो निषेधश्चेत्स्वोक्तस्यैव विचारणात् ॥
आनय प्रेयसी दूति यद्वा सागच्छति स्वयम् ।
आभासिताक्षेप उक्तो विशेषप्रतिपत्तये ।
वक्ष्यमाणस्य वोक्तस्य निषेधाभासकीर्तनम् ॥
वक्ष्यमाणोक्तभेदेन स द्वेधा परिकीर्तितः ।
वक्ष्यमाणाक्षेप उक्तो वक्ष्यमाणनिषेधतः ॥