पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२६
काव्यमाला ।

प्राचीनम्---
कवितारसचातुर्यं रसज्ञो वेत्ति नो कविः ।
सुतासुरतचातुर्यं जामाता वेत्ति नो पिता ॥ ८४ ॥
आराधितोऽपि नीचः परिदर्शयति स्वकीयकटुभावम् ।
न जहाति पारिभद्रः पयसा सिक्तोऽपि नैजकटुभावम् ॥ ८५ ॥
(अथ दीपकम्--)
वर्ण्यानामप्यवर्ण्यानां धर्मैक्यं दीपकं मतम् ।
दुर्जनधिषणाभीक्ष्णं मृगयति दोषान्गुणेषु विलसत्सु ।
पत्यौ तरुणे सत्यपि जातिविहीनं विटं कुलटा ॥ ८६ ॥
(अथावृत्तिदीपकम्--)
तत्पदार्थोभयावृत्तौ सत्यामावृत्तिदीपकम् ॥
स्तननति वृद्धावृन्दं स्तननति कण्ठीरवस्य चारावः ।
विलसति कमलश्रेणी स्फुरति च मल्लीमतल्लिकाशैली ॥ ८७ ॥
साकूतं वीक्षते राधा वीक्षते पश्य मालती ।
(अथ दृष्टान्तः--)
चेद्बिम्बप्रतिबिम्बत्वं भिन्नवाक्यार्थधर्मयोः ।
दृष्टान्तः स तु साधर्म्यवैधर्म्याभ्यां द्विधा मतः ॥
मुकुन्द एव गोपीनां कदम्बं तोषयत्यहो ।
वसन्त एव वल्लीनां विकासयति संचयम् ॥ ८८ ॥
मुकुन्ददर्शनादेव सस्मितं राधिकाननम् ।
निद्राति तावन्नलिनं यावन्नोदेति भानुगान् ॥ ८९ ॥
(अथ व्यतिरेकः--)
भेदप्रधानसाधर्म्यमुपमानोपमेययोः ।
व्यतिरेकः स तु त्रेधाधिकन्यूनसमात्मना ॥
स्मरेण सदृशः सोऽभूत्तथापीयं भिदा तयोः ।
वियुक्तस्मयहर्ताद्यस्तत्कर्तान्यः स्वचेष्टितैः ॥ ९० ॥