पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२४
काव्यमाला ।

करकलितचारुवीटी कुम्भकुचाक्रान्तकुसुम्भमयशाटी ।
कान्ता कामवधूटी तरुणान्मोहितुमिहैति कर्णाटी ॥ ७४ ॥
(अथातिशयोक्ति:--)
यच्चानुपात्तविषयाहार्यस्य विषयं तथा ।
निर्णयस्य हि चाभेदताद्रूप्यान्यतरच्च तत् ॥
द्विविधातिशयोक्तिः सा भेदताद्रूप्यभेदतः ।
अभेदातिशयोक्तिश्चाहार्योऽभेदस्य चेद्यदि ॥
वयस्य पश्य तमसा बद्धं शीतांशुमण्डलम् ।
ताद्रूप्यातिशयोक्तिः स्यात्ताद्रूप्यारोपणे सति ।
पश्य स्फुरति मित्त्रात्र मुक्तलक्ष्मा क्षपाकरः ॥ ७५ ॥
अभेदातिशयोक्तिस्तु शुद्धभेदकभेदतः ॥
संबन्धात्यन्तचपलासंबन्धाक्रमभेदतः ।
सापह्नवा चेति बुधैरष्टधा परिकीर्तिता ॥
भेदकातिशयोक्तिस्तु वर्ण्यस्यान्यत्ववर्णनम् ।
अन्येयं चातुरी तस्या अन्या लावण्यपद्धतिः ।
संबन्धातिशयोक्तिः स्यादयोगे योगकल्पनम् ॥
सूर्याश्वा विश्रमन्त्यत्र ग्रीष्मे गोपुरगह्वरे ॥ ७६ ॥
पौर्वापर्यव्यतिक्रान्तिः कार्यकारणयोर्यदि ।
अत्यन्तातिशयोक्तिस्तु तदा प्राज्ञैः प्रकीर्तिता ॥
आदौ महानभूत्स्नेहः पश्चाद्दर्शनमावयोः ।
चपलातिशयोक्तिस्तु कार्ये हेतुप्रसक्तिजे ।
यास्यामीति प्रियोक्तेयमूर्मिकां तनुतेऽङ्गदम् ॥ ७७ ॥
योगेऽप्ययोगोऽसंबन्धातिशयोक्तिः प्रकीर्तिता ।
न सेवे भोजनानन्दं सति त्वयि वरानने ।
समकालत्वेऽक्रमातिशयोक्तिर्हेतुकार्ययोः ।
राधा तदैवानुरक्ता यदा वीक्षति माधवः ॥ ७८ ॥
सापह्नवेति सा प्रोक्ता यद्यपह्नुतिगर्भता ॥