पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२०
काव्यमाला ।

केचिदाहुश्चाष्टचत्वारिंशद्भेदांश्च रूपके ॥
[स्मृतिः--]
सदृशानुभवादन्यस्मरणं स्मृतिरिष्यते ।
केवलात्मविशेषात्मभेदात्सा द्विविधा मता ॥
स्मरणे-सदृशस्यैव केवलस्मृतिरीरिता ।
हरिः सस्मार राधाया मालती कामकेलिषु ।
विशेषस्मृतिरित्युक्ता संबन्धिस्मरणे सति ॥
माधवो राधिकां पश्यन्क्षीरपाथोधिमस्मरत् ॥ ६० ॥
[उपमेयोपमा--]
उपमानोपमेयत्वे पर्यायेण द्वयोर्यदि ।
सोपमेयोपमा द्वेधा सधर्माधर्मभेदतः ॥
सुन्दरी मालतीवासौ राधा राधेव मालती ।
राधिका मालतीवासौ राधिकेव च मालती ॥ ६१ ॥
[उल्लेखः--]
अनेकधोल्लेखनं तु विषयैर्वा गृ(ग्र)हीतृभिः ।
एकस्य वस्तुनोऽनेकैरुल्लेखालंकृतिर्मता ॥
विषयग्राहि(ह)कोल्लेखभेदेन द्विविधोऽपि सः ।
विषयाणामनेकत्वे विषयोल्लेख इष्यते ।
श्लिष्टाश्लिष्टविभेदेन द्वेधा लक्ष्यं ब्रुवे क्रमात् ॥
उग्रः शत्रौ गुरुर्वाण्यां चन्द्रो नेत्रप्रहर्षणे।
स्वर्द्रुरर्थिषु लावण्ये कन्दर्पो राधिकाविटः ॥ ६२ ॥
गृ(ग्र)हीतॄणामनेकत्वे ग्राहि(ह)कोल्लेख इष्यते ।
तमीक्षन्ते स्त्रियः कामं द्विषः कालं जना नृपम् ॥ ६३ ॥
[परिणाम.--]
प्रकृतस्योपयोगित्वाद्विषयात्मतया भवेत् ।
आरोप्यमाणो विषयी परिणामस्तदा मतः ॥