पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११८
काव्यमाला ।

वृथोदयति निर्लज्जः शशी सति तवानने ।
प्रतीपं पञ्चमं केचिदाक्षेपं परिचक्षते ॥
[रूपकम्-]
बिम्बाविशिष्टे विषये न तिरोहितरूपिणि ।
आरोपविषयीभूतं रूपकं चोपरञ्जकम् ॥
तद्रूपकं मतं द्वेधाभेदताद्रूप्यभेदतः ।
आरोपे सत्यभेदस्याभेदरूपकमिष्यते ॥
प्रमोदं तनुतेऽस्माकं राधिकाया मुखं शशी ॥ ४८ ॥
ताद्रूप्यस्य समारोपे सति ताद्रूप्यरूपकम् ।
मुदं तनोति राधाया मुखमन्यः सुधाकरः ।
अधिकं च समं न्यूनं सावयवं चैव निरवयवम् ।
किं च परम्परितं चेत्येवं चाभेदरूपकं षोढा ॥
पूर्वावस्थात आरोप्यमाणस्याधिक्यदर्शने ।
अवस्थायां तु तस्यां चेदधिकाभेदरूपकम् ॥
आश्रित्य राधिका त्यक्तकलङ्कश्चन्दिरोऽभवत् ॥ ४९ ॥
न्यूनताधिक्ययोश्चैवानिर्देशे सममीरितम् ।
राधिकाया मुखं साक्षाच्चन्द्र एव न संशयः ।
प्राग्दशातो न्यूनता चेत्तन्न्यूनाभेदरूपकम् ॥
असागरोद्भवः साक्षात्सुधाशुस्ते मुखं सखि ॥ ५० ॥
समस्तवस्तुविषयमेकदेशविवर्ति च ।
इति सावयवं चापि द्विविधं परिकीर्तितम् ॥
यत्रावयविनश्चैवावयवानां समासतः ।
समस्तवस्तुविषयं भवेत्तत्र निरूपणम् ॥
राधिकावदनाम्भोजं सस्वदे कृष्णवंभरः ।
अथावयविनो यत्रावयवानां निरूपणात् ।
निरूपणं गम्यते स्यादेकदेशविवर्ति तत् ॥
लावण्यपयसा पुष्टं सदाधरमधूल्लसत् ॥ ५१ ॥