पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११२
काव्यमाला ।

सा तूपमा द्विधा प्रोक्ता पूर्णा लुप्तेति भेदतः ।
साधारणस्य धर्मस्स ह्युपमानोपमेययोः ॥
वाचकस्य च योगे तु सैव पूर्णेति संमता ।
पुनश्च द्विविधा पूर्णा सा श्रौत्यार्थीविभेदतः ॥
श्रौती तु साक्षात्सादृश्यवाचकेवादियोगके ।
सा धर्मि(र्म्य)व्यवधानेन सादृश्यप्रतिपादकाः ॥
प्रतीकाशादिशब्दाः स्युः पूर्णार्थी तत्र कीर्तिता ।
समासगे तद्धितगे वाक्यगे इति ते पुनः ॥
द्वे च त्रिधेत्थं पूर्णेयं षड्विधा परिकीर्तिता ।
भास्वानिवोदयालम्बी नेत्रानन्दकरो हरिः ।
इत्यत्र कथिता सम्यक्पूर्णा श्रौती समासगा ॥ ४ ॥
धरवद्दृढतुङ्गस्य कुचस्यांशुकमस्पृशत् ।
अत्र तद्धितगा पूर्णोपमा श्रौती प्रकाशिता ॥ ५ ॥
पद्मं यथा वितनुते मुखं राधामुखं तथा ।
इत्यत्र वाक्यगा पूर्णा श्रौती सम्यक्प्रकीर्तिता ॥ ६ ॥
आलिङ्गत्यसकृत्कान्त्या कान्ता कामसतीनिभाम् ।
हरिरित्यत्र कथिता पूर्णा चार्थी समासगा ॥ ७ ॥
सौन्दर्ये कामकान्तावत्त्वं कान्ते भासि संततम् ।
इत्यत्रार्थी तद्धितगा पूर्णा सम्यक्प्रकाशिता ॥ ८ ॥
कान्तानेत्रे विराजेते कान्त्या पद्मस्य संनिभे ।
इत्यत्र वाक्यगा पूर्णोपमा चार्थी प्रकीर्तिता ॥ ९ ॥
यत्रैकद्वित्रलोपे वा तत्र लुप्तोपमा मता ।
अधर्मा चावधामेयाधमेयावाचका तथा ॥
अमेयवावाधमेयाधनवावानकाधना ।
अनमेति च सा लुप्ता त्वेकादशविधा मता ॥
लाघवेन प्रवृत्त्यर्थमित्थं संज्ञाः प्रकीर्तिताः ।
धर्मस्य चानुपादाने सैवाधर्मोपमा मता ॥