पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०.व्यङ्ग्यबिन्दुः]
१०९
मन्दारमरन्दचम्पूः ।

अवन्त्या तु प्रवृत्तिः स्यात्सदा निर्वाणकाङ्क्षया ।
सदास्तु ते पदध्यानं किं मे स्वर्गसुखादिभिः ।
अर्थार्जनप्रवृत्तिस्तु प्रवृत्तिर्मागधी मता ॥
क्षणाद्राज्यं हरिष्यामि निगृह्य रिपुसंचयम् ।
भोगार्जनप्रवृत्तिस्तु प्रवृत्तिर्दाक्षिणात्यजा ।
प्रियागमनवेलेयं शय्यां कल्पय दूतिके ॥ ६७ ॥
वर्गेष्वाद्यतृतीयाश्च यवलाश्चातिकोमलाः ॥
धनौ रमौ शसौ हश्च वर्णाः शान्ताः प्रकीर्तिताः ।
शेषाष्टवर्गः सर्वोऽपि परुषाः परिकीर्तिताः ॥
परुषा अन्यसंयुक्ता अतिप्रौढा भवन्ति हि ।
कोमला अन्यसंयुक्ता यान्तीषत्सुकुमारताम् ॥
असंलक्ष्यक्रमं व्यङ्ग्यं सप्रपञ्चं निरूपितम् ।
तुष्यन्तु परिगृह्णन्तु निर्मत्सरतया बुधाः ॥

जलजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटेऽलंपटेन ।
गुहपुरनिलयेन प्रोद्धृतो रम्यबिन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ॥

 इति श्रीमद्धटिकाशतशतघण्टाविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयोगीश्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणः कवेः कृतौ मन्दारमरन्दे चम्पूप्रबन्धे रम्यबिन्दुर्नवमः समाप्तिमगमत् ।


व्यङ्ग्यबिन्दु ।

व्यङ्ग्यबिन्दावलंकारध्वनिलक्षणलक्ष्ययोः ।
ब्रूमहे बालबोधाय तोषाय विदुषामपि ॥
अलंकरोति शब्दार्थावित्यलंकार इष्यते ।
द्विधा शब्दार्थभेदेन शब्दालंकृतयस्तु षट् ॥
छेको वृत्तिस्तथा लाटोऽनुप्रासपदपूर्वगाः ।
पुनरुक्तवदाभासो यमकं चित्रमित्यपि ॥
क्रमात्सजातीयवर्णद्वयस्यावर्तनं यदि ।
व्यवधानं विना तत्र च्छेकानुप्रास इष्यते ॥