पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०६
काव्यमाला ।

परनिष्ठोऽद्भुतोऽन्यस्य परकर्मादिसंभवः ॥
आनने वीक्ष्य कृष्णस्य ब्रह्माण्डं विस्मिताभवत् ।
केचिदाहुः प्रवृत्तिं च निवृत्तिं च फलद्वयम् ।
माया रसः प्रवृत्तौ तु निवृत्तौ शान्त इष्यते ॥
माया रसस्य भावस्तु स्थायी मिथ्यामतिर्मता ।
विभावा भुक्तिभोगाद्या अनुभावाः सुतादयः ॥
हर्षगर्वमदाद्याः स्युर्मायायां व्यभिचारिणः ।
मिथ्यामतिपरीपोषो मायारस इतीष्यते ॥
यदि रामा यदि च रमा तनयो विनयोदयोपेतः ।
यदि तनये तनयश्चेत्परलोकेऽस्मात्किमाधिक्यम् ॥ ५९ ॥
शमस्य परिपोषस्तु रसः शान्त उदाहृतः ।
अनुभावास्तु मोक्षाद्या विभावा ज्ञानपूर्वकाः ॥
ग्लानिश्रमविषादाद्याः शान्ते स्युर्व्यभिचारिणः ।
हेयं हर्म्यं धनं देयं पेयं तीर्थजलं पदम् ।
ध्येयं गेयं हरेर्वृत्तं मग्नेनासारसंसृतौ ॥ ६० ॥
व्रीडोन्मादमदावेगविषादौत्सुक्यविस्मयाः ॥
शङ्कासूया भयं ग्लानिर्निद्रा व्याधिः स्मृतिर्धृतिः ।
चिन्तावहित्था मरणं चापलं जडतापि च ॥
इत्येव विंशतिर्भावाः शृङ्गारे व्यभिचारिणः ।
केचिदूचुश्च सकलाः शृङ्गारे व्यभिचारिणः ॥
शङ्कासूया चपलता निद्रा स्वप्नः श्रमस्तथा ।
अवहित्था ग्लानिरिति हास्ये स्युर्व्यभिचारिणः ॥
दैन्यं ग्लानिर्व्याधिचिन्ते निर्वेदो जडता स्मृतिः ।
रसे भावाः प्रयोक्तव्याः करुणे व्यभिचारिणः ॥
हर्षासूयोत्साहगर्वमदाश्चपलतोग्रता ।
रसे रौद्रे प्रयोक्तव्यास्ते भावा व्यभिचारिणः ॥