पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०४
काव्यमाला ।

स्वनिष्ठः करुणः स्वस्य स्वेष्टनाशादिसंभवः ।
प्राचीनम्---
कृतवानसि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् ।
किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयते ॥ ४९ ॥
परनिष्ठः परानिष्टप्राप्त्यादिजनितो मतः ॥
प्राचीनम्---
अथ तैः परिदेविताक्षरैर्हृदये दिग्धशरैरिवार्दितः ।
रतिमभ्युपपत्तुमातुरां मधुरात्मानमदर्शयत्पुरः ॥ ५० ॥
सर्वेन्द्रियाणामौद्धत्यं यद्वा मात्सर्यपूर्वकैः ।
क्रोधस्य च परीपोषौ रसो रौद्रः प्रकीर्तितः ।
वर्णो रक्तस्तु रौद्रस्य देवता रुद्र ईरितः ।
प्राचीनम्---
अद्य मिथ्याप्रतिज्ञोऽसौ किरीटी क्रियते मया ।
शस्त्रं गृहाण वा नो चेन्मौलावारचयाञ्जलिम् ॥ ५१ ॥
सर्वेन्द्रियप्रहर्षस्तु रसो वीरः स तु त्रिधा ॥
दानवीरदयावीरयुद्धवीरविभेदतः ।
वर्णो गौरो देवता तु त्रिलोकेशः शचीपतिः ॥
दानवीरो मतो दानाध्यवसायादिसंभवः ।
इन्द्राय श्येनरूपाय शिबिर्मांसानि दत्तवान् ।
तस्मै ब्राह्मणरूपाय न दद्या चर्मवर्म किम् ॥ ५२ ॥
आर्द्रताध्यवसायादेर्दयावीरस्तु संभवः ॥
प्राचीनम्---
अयि विहंगवराक कपोतकं विसृज धेहि धृति मम मेदसा ।
शिबिरहं विदितो भवता न किं सकलसत्त्वसमुद्धरणक्षमः ॥ ५३ ॥
प्रतापाध्यवसायादिजोत्सवो युद्धवीरकः ।
संग्रामसंगते रामे दृष्टिश्चापं करः शरम् ।
सर्वाङ्गं पुलकं चित्तं धृतिर्धावति सत्वरम् ॥ ५४ ॥