पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९.रम्यबिन्दुः]
१०३
मन्दारमरन्दचम्पूः ।

तथा मृदुस्तथा रागी चतुरः सुन्दुरस्तथा ।
मानवत्यपि कान्ता द्राक्स्वयमेव यथा व्रजेत् ॥ ४५ ॥
उन्मादमोहावारात्प्रागत्रैव कथितौ मया ॥
आहुरेता दशाः केचिच्छृङ्गारे त्वभिलाषजे ।
केचिदाहुर्विप्रलम्भसामान्येऽपि दशा इमाः ॥ ४६ ॥
हासस्य परिपोषस्तु रसो हास्यः प्रकीर्तितः ॥
वर्णोऽस्य शुक्लो देवस्तु सिन्धुरानन ईरितः ।
हास्यस्य देवतां केचिद्ब्रुवन्ति रजनीकरम् ॥
स्वनिष्ठः परनिष्ठश्चेत्यादौ स द्विविधो मतः ।
स द्वेधापि त्रिधा ज्येष्ठमध्यमाधमभेदतः ॥
उत्तमानां स्मितं प्रोक्तं मध्यानां हसितं मतम् ।
प्रोक्तं तथातिहसितमधमानां कवीश्वरैः ॥
स्वीयहासपरीपोषो विकृतस्वक्रियादिभिः ।
यः स स्वनिष्ठो हास्यः स्याद्रस इत्युदितो बुधैः ॥
प्राचीनम्---
लेखिनीमित इतो विलोकयन्कुत्र कुत्र न जगाम पद्मभूः ।
ता पुनः श्रवणसीमसंगतां प्राप्य नम्रवदनः स्मितं दधौ ॥ ४७ ॥
अन्यहासपरीपोषो विकृतान्यक्रियादिभिः ।
परनिष्ठो हास्य इति प्रोक्तः स रसकोविदैः ॥
मन्दगं वस्त्रमुद्धृत्य मघवन्मणिकुट्टिमे ।
ततोऽम्भःपतितं वीक्ष्य जहसुर्द्रौपदीमुखाः ।
अन्येषां सुगमत्वाच्च दिङ्मात्रमिति कीर्तितम् ॥ ४८ ॥
अनिष्टाप्तीष्टनाशाभ्यां करुणः शोकपोषणम् ।
केचिदाशाच्छेदजन्येन्द्रियग्लानिं च तं विदुः ॥
वर्णः कपोतचित्रं स्याद्देवता वरुणो मतः ।
स्वनिष्ठः परनिष्ठश्चेति द्विधा करुणो रसः ॥