पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/११९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९.रम्यबिन्दुः]
१०१
मन्दारमरन्दचम्पूः ।

अभिलाषाद्यात्मकत्वाद्रत्यादिस्थायिनां पुनः ।
अतो न रसतैतेषामानन्दात्मा यतो रसः ॥
यूनोः परस्परं पूर्णः प्रमोदः शुचिरुच्यते ।
दैवतं विष्णुरेवास्य वर्णः श्यामः प्रकीर्तितः ॥
संभोगविप्रलम्भाभ्यां शृङ्गारो द्विविधो मतः ।
संभोगः स्याच्चुम्बनादिभेदाद्यद्यप्यनेकधा ॥
तथापि कामिनीकान्तारब्धभेदाद्द्विधा मतः ।
यथा यथा किरत्येषा कटाक्षविशिखान्प्रिये ।
तथा तथा वहत्येष सान्द्ररोमाञ्चकञ्चुकम् ॥ ३६ ॥
यूनोरन्योन्यमुदितेन्द्रियसंबन्धवर्जनम् ॥
स्याद्विप्रलम्भः शृङ्गारः कथितः स तु पञ्चधा ।
शापप्रवासाभिलाषेर्ष्यावियोगजभेदतः ॥
मुन्यादिकोपजोऽश्लेषो विप्रलम्भस्तु शापजः ।
कुन्तीमलंकृतां पश्यन्मृगयां विव्यथे स्मरन् ।
प्रवासजो विप्रलम्भः प्रिये देशान्तरोन्मुखे ॥
प्रयाणोद्युक्तकान्तस्य श्रुति वृत्तं गतं तदा ।
प्रमोदेनाश्रुणा तस्याः सार्धं धैर्येण निःसृतम् ॥ ३७ ॥
प्रागसंगतयोर्यूनोरनुरागेऽपि जाग्रति ।
अयोगः पारतन्त्राद्यैर्विप्रलम्भोऽभिलाषजः ॥
कटाक्षान्किरतोरादौ साकूतं हसतोस्ततः ।
अयने मेलने दैवाद्यदासीत्तत्कथं ब्रुवे ॥ ३८ ॥
ईर्ष्यासंभूतस्तु मानाद्विश्लेषः सागसि प्रिये ।
धन्याहं त्वत्प्रिया नाम प्रापितास्मि शठाद्य यत् ।
यूनोः कुतोऽपि विश्लेषो युक्तयोश्च वियोगजः ॥
नास्ति किं तत्र चन्द्रोऽयं यन्नाद्यापि समागतः ॥ ३९ ॥
अथ शृङ्गाराङ्कुरादिहेत्ववस्था दश ब्रुवे ।
चक्षुःप्रीतिर्मनःसङ्गः संकल्पश्च प्रजागरः ॥