पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/११८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१००
काव्यमाला ।

भेदनिर्भर्त्सनाद्याः स्यू रौद्रे तूद्दीपका रसे ।
व्यवसायोत्साहमोहा विषादा विस्मयादयः ॥
उद्दीपका रसे वीरे विभावाः कथिता बुधैः ।
श्मशानारण्यसंग्राममहासत्त्वादिदर्शनम् ॥
दुःस्वरश्रवणक्ष्मापापराधाद्या भयानके ।
बीभत्से चानभिमतगन्धस्पर्शरसेक्षणम् ॥
अहृद्यश्रवणस्मृत्यादय उद्दीपका मताः ।
शिल्पमायाकर्मरूपातिशयवचांसि च ॥
इन्द्रजालादयः प्रोक्ता अद्भुतोद्दीपका बुधैः ।
अनुभावविभावानां नोदाहरणमीरितम् ॥
सुगमत्वात्तथैतेषां ग्रन्थगौरवभीतितः ।
व्यभिचारिविभावानुभावैर्भावैश्च सात्विकैः ॥
एतैः समुल्लासितोऽयं भावः स्थायी रसो मतः ।
अनुभावविभावाद्यैर्यत्र चित्तस्य विश्रमः ॥
रसं तं ब्रुवतेऽन्येऽन्ये प्रबुद्धस्थायिवासनाम् ।
अलौकिको लौकिकश्चेत्येवं स द्विविधो रसः ॥
आत्मचेतःसंनिकर्षमात्रजातस्त्वलौकिकः ।
बहिः स्वसंनिकर्षेभ्यः स्यादुद्भूतस्तु लौकिकः ॥
शृङ्गारहास्यकरुणरौद्रवीरभयानकाः ।
बीभत्सोऽद्भुत इत्यष्टविधः स्यादुभयो रसः ॥
रसोऽपि नवमः शान्तः शमस्थायीति केचन ।
अन्ये तु करुणास्थायी वात्सल्यं दशमोऽपि च ॥
रसस्य तत्र नित्यत्वान्न शान्तिर्नोदयोऽपि च ।
अनित्यत्वात्तु भावानामस्ति शान्तिस्तथोदयः ॥
रसस्य संधिशाबल्ये न केनापि प्रकीर्तिते ।
भावानां संधिशाबल्ये सर्वैः कविभिरीरिते ॥