पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/११७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९.रम्यबिन्दुः]
९९
मन्दारमरन्दचम्पूः ।

आक्षेपादियुता वाचो रसे वीरेऽनुभावकाः ।
रोमाञ्चस्वरभेदाङ्घ्रिकरनेत्रादिकम्पनम् ॥
शुष्कोष्ठतालुकण्ठाद्या अनुभावा भयानके ।
नेत्रास्यघूर्णनं नासामुखाक्ष्याच्छादनानि च ॥
निष्ठीवनाद्या बीभत्से अनुभावा रसे मताः ।
हाहाकारः साधुवादः कम्पो गद्गदभाषणम् ॥
निर्निमेषप्रेषणाद्या अनुभावाः स्युरद्भुते ।
विभावस्तु ज्ञायमानरसोत्पादनकारणम् ॥
स विभावो द्विधा चालम्बनोद्दीपनभेदतः ।
आलम्बनविभावस्तु यमालम्ब्याभिजायते ॥
कार्यं स स्याद्द्वितीयस्तु निमित्तं कारणं मतम् ।
उद्दीपनविभावोऽपि प्रोक्तः प्राज्ञैश्चतुर्विधः ॥
आलम्बनालंकरणं तच्चेष्टा तद्गुणास्तथा ।
तटस्थश्चेति तत्सर्वं निर्दिशामि क्रमादिह ॥
आलम्बनविभावास्तु नायकादय ईरिताः ।
आलम्बनालंकरणं हारनूपुरपूर्वकम् ॥
तथालम्बनचेष्टास्तु हावभावादयो मताः ।
आलम्बनगुणाश्चापि रूपयौवनपूर्वकाः ॥
तटस्थाः शीतकिरणमलयानिलपूर्वकाः ।
माल्यालंकारर्तुगानकाव्यसेवासुधाकराः ॥
चन्दनोद्यानगत्याद्याः शृङ्गारोद्दीपका मताः ।
विकृतालंकारवेषाचारव्याहारपूर्वकाः ॥
उद्दीपनविभावास्तु रसे हास्ये प्रकीर्तिताः ।
शापेष्टनाशदारिद्र्यबन्धनव्यसनादयः ॥
उद्दीपनविभावास्तु कथिताः करुणे रसे ।
संग्रामायुधखड्गाभिभवार्युदितदुर्गिरः ॥