पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/११२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९४
काव्यमाला ।

सत्त्वत्यागादनौद्धत्यं दैन्यं कार्पण्यसंभवम् ।
अत्रानुभावा मलिनाननतादय ईरिताः ॥
अबलाहननं न हि तव युक्तं सुमनः सुधर्मयुक्तस्य ।
अपि मधुसूदनगुणवत आकलये ते नमः शतं भूयः ॥ १५ ॥
इष्टानभिगमादिभ्य आवेगो जातसंभ्रमः ।
युक्तायुक्तविपर्यासादयश्चात्रानुभावकः ॥
घनगर्जितमाकर्ण्य कन्दर्पाक्रान्तमानसा ।
मानिन्यपि स्वयं सद्यो जगाम शठमन्दिरम् ॥ १६ ॥
आत्मेष्टवस्तुनोऽप्राप्त्या चिन्ता तद्ध्यानमीरितम् ।
अत्रानुभावाः संतापबाष्पनिःश्वसितादयः ॥
कदा पश्यामि राधायाः कुण्डलद्वयमण्डितम् ।
अधरीकृतराकेन्दुमण्डलं मुखमण्डलम् ॥ १७ ॥
मोहो विचित्तता भीतिदुःखावेगानुचिन्तनैः ।
अनुभावा अत्र पातस्तम्भविस्मरणादयः ॥

प्राचीनम्---

कुशलं तस्या जीवति कुशलं पृच्छामि जीवतीत्युक्तम् ।
पुनरपि तदेव कथयसि मृतां नु कथयामि या श्वसिति ॥ १८ ॥
स्मृतिः पूर्वानुभूतार्थज्ञानं सदृशदर्शनात् ।
अत्रानुभावाः कथिता भूसमुन्नयनादयः ॥
सस्मार राधिकां कृष्णो मालतीनवसंगमे ।
धृतिरानन्दथुस्तत्त्वज्ञानाभीष्टागमादिभिः ।
अत्रानुभावा अव्यग्रसंभोगकरणादयः ॥
इयं सा राधिका लब्धा किमन्याभिः फलं मम ।
इत्यव्यग्रमना गाढमालिलिङ्ग तदा हरिः ॥ १९ ॥
चेतःप्रसन्नता हर्षः स्यात्प्रेयोदर्शनादिभिः ।
अत्रानुभावाः पुलकस्वेदबाष्पोद्भवादयः ॥