पृष्ठम्:मनोहरकाव्यमाला.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स तु तां राम रामेति रुदती लक्ष्मणेति च । जगामादाय चाकाशं रावणो राक्षसेश्वरः॥ १०॥ तप्ताभरणवर्णाङ्गी पीतकौशेयवासिनी । रराज राजपुत्री तु विद्युत्सौदामनी यथा ॥ ११ ॥ उद्धृतेन च वस्त्रेण तस्याः पीतेन रावणः । अधिकं परिवभ्राज गिरिर्दीप्त इवाग्निना ॥ १२ ॥ तस्याः परमकल्याण्यास्ताम्राणि सुरभीणि च । पद्मपत्राणि वैदेह्या अभ्यकीर्यन्त रावणम् ॥ १३ ॥ तस्याः कौशेयमुद्धृतमाकाशे कनकप्रभम् । बभौ चादित्यरागेण ताम्रमभ्रमिवातपे ॥ १४ ॥ तस्यास्तद्विमलं वक्त्रमाकाशे रावणाङ्कगम् । न रराज विना रामं विनालमिव पङ्कजम् ॥ १५ ॥ चरणान्नपुरं भ्रष्टं वैदेह्या रत्नभूषितम् । विद्युन्मण्डलसंकाशं पपात धरणीतले ॥ १६ ॥ तरुप्रवालरक्का सा नीलाङ्गं राक्षसेश्वरम्। प्रशोभयत वैदेही गजं कक्ष्येव काञ्चनी ॥ १७ ॥ तां महोल्कामिवाकाशे दीप्यमानां स्वतेजसा । जहाराकाशमाविश्य सीतां वैश्रवणानुजः ॥ १८ ॥ तस्यास्तान्यग्निवर्णानि भूषणानि महीतले । सघोषाण्यवशीर्यन्त क्षीणास्तारा इवाम्बरात् ॥ १६ ॥ तस्याः स्तनान्तरा्द्भ्रष्टो हारास्ताराधिपद्युतिः । वैदेह्या निपतन्भाति गङ्गेव गगनच्युता ॥ २० ॥ रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम् । रुदती करुणां सीतां ह्रियमाणा तमब्रवीत् ॥ २१ ॥ न व्यपत्रपसे नीच कर्मणाऽनेन रावण । ज्ञात्वा विरहितां यो मां चोरयित्वा पलायसे ॥ २२ ॥