पृष्ठम्:मनोहरकाव्यमाला.pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २३१ )

बहुमित्रकरः सुखं वसते यश्च धर्मरतः स गतिं लभेत ॥ ६९ ॥

३३. यक्ष उवाच-

को मोदते किमाश्चर्यं कः पन्थाः का च वार्तिका । वद मे चतुरः प्रश्नान्मृता जीवन्तु बान्धवाः ॥ ७० ॥

युधिष्ठिर उवाच-

पञ्चमेऽहनि षष्ठे वा शाकं पचति स्वगृहे । अनृणी चाप्रवासी च स वारिचर मोदते ॥ ७१ ॥ अहन्यहनि भूतानि गच्छन्तीह यमालयम् । शेषाः स्थावरमिच्छन्ति किमाश्चर्यमतः परम् ॥ ७२ ॥ तर्कोऽप्रतिष्ठः श्रुतयो विभिन्ना नैको मुनिर्यस्य मतं प्रमाणम् । धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः ॥ ७३ ॥ पृथ्वी विभाण्डं गगनं पिधानं सूर्याग्निना रात्रिदिवेन्धनेन् । मासर्तुदर्वीपरिघट्टनेन भूतानि कालः पचतीति वार्ता ॥ ७४ ॥

३४. यक्ष उवाच-

व्याख्याता मे त्वया प्रश्ना यथातत्वं परंतप । पुरुष त्विदानीं व्याख्याहि यः सर्वधनी नरः ॥ ७५ ॥

युधिष्ठिर उवाच-

दिवं स्पृशति भूमिं च शब्दः पुण्येन कर्मणा । यावत्स शब्दो भवति तावत्पुरुष उच्यते ॥ ७६ ॥ तुल्ये प्रियाप्रिये यस्य सुखदुःखे तथैव च । अतीतानागते चोभे स वै पुरुष उच्यते ॥ ७७ ॥ समत्वं यस्य सर्वेषु निस्पृहः शान्तमानसः । सुप्रसन्नः सदा योगी स वै सर्वधनी नरः ॥ ७८ ॥