सामग्री पर जाएँ

पृष्ठम्:मनोहरकाव्यमाला.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अत्यन्तं निगृहीतास्मि भर्तुनित्यमतन्त्रिता ।
परिवारेण कैकेय्याः समा वाप्यथवावरा ॥ ३४ ॥
यो हि मां सेवते कश्चिदपि वाप्यनुवर्तते ।
कैकेय्याः पुत्रमन्वीक्ष्य स जनो नाभिभाषते ॥ ३५ ॥
नित्यक्रोधतया तस्याः कथं नु खरवादिनम् ।
कैकेय्या वदनं द्रष्टुं पुत्र शक्ष्यामि दुर्गता ॥ ३६ ॥
सप्त दश च वर्षाणि जातस्य तव राघव ।
अतीतानि प्रकांक्षन्त्या मया दुःखपरिक्षयम् ॥ ३७॥
तदक्षयं महद्दुःखं नोत्सहे सहितुं चिरात् ।
विप्रकारं सपत्नीनामेवं जीर्णापि राघव ॥ ३०॥
अपश्यन्ती तव मुखं परिपूर्णशशिप्रभम् ।
कृपणा वर्तयिष्यामि कथं कृपणजीविका ॥ ३९ ॥
उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः ।
दुःस्वसंवर्धितो मोघं त्वं हि दुर्गतया मया ॥ ४०॥
स्थिरं नु हृदयं मन्ये ममेदं यन्न दीर्यते ।
प्रावृषीव महानद्याः स्पृष्टं कूलं नवाम्भसा ।। ४१ ।।
ममैव नूनं मरणं न विद्यते
न चावकाशोऽस्ति यमक्षये मम ।
यदन्तकोऽद्यैव न मां जिहीर्षति
प्रसह्य सिंहो रुदर्ती मृगीमिव ॥ ४२ ॥
स्थिरं हि नूनं हृदयं ममायसं
न भिद्यते यद्भुवि नो विदीर्यते ।
अनेन दुःखेन च देहमर्पितं
ध्रुवं ह्यकाले मरणं न विद्यते ॥ ४३ ॥
इदं तु दुःखं यदनर्थकानि मे
व्रतानि दानानि च संयमाश्च हि।