पृष्ठम्:मनोहरकाव्यमाला.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अत्यन्तं निगृहीतास्मि भर्तुनित्यमतन्त्रिता । परिवारेण कैकेय्याः समा वाप्यथवावरा ॥ ३४ ॥ यो हि मां सेवते कश्चिदपि वाप्यनुवर्तते । कैकेय्याः पुत्रमन्वीक्ष्य स जनो नाभिभाषते ॥ ३५ ॥ नित्यक्रोधतया तस्याः कथं नु खरवादिनम् । कैकेय्या वदनं द्रष्टुं पुत्र शक्ष्यामि दुर्गता ॥ ३६ ॥ सप्त दश च वर्षाणि जातस्य तव राघव । अतीतानि प्रकांक्षन्त्या मया दुःखपरिक्षयम् ॥ ३७॥ तदक्षयं महद्दुःखं नोत्सहे सहितुं चिरात् । विप्रकारं सपत्नीनामेवं जीर्णापि राघव ॥ ३०॥ अपश्यन्ती तव मुखं परिपूर्णशशिप्रभम् । कृपणा वर्तयिष्यामि कथं कृपणजीविका ॥ ३९ ॥ उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः । दुःस्वसंवर्धितो मोघं त्वं हि दुर्गतया मया ॥ ४०॥ स्थिरं नु हृदयं मन्ये ममेदं यन्न दीर्यते । प्रावृषीव महानद्याः स्पृष्टं कूलं नवाम्भसा ।। ४१ ।। ममैव नूनं मरणं न विद्यते न चावकाशोऽस्ति यमक्षये मम । यदन्तकोऽद्यैव न मां जिहीर्षति प्रसह्य सिंहो रुदर्ती मृगीमिव ॥ ४२ ॥ स्थिरं हि नूनं हृदयं ममायसं न भिद्यते यद्भुवि नो विदीर्यते । अनेन दुःखेन च देहमर्पितं ध्रुवं ह्यकाले मरणं न विद्यते ॥ ४३ ॥ इदं तु दुःखं यदनर्थकानि मे व्रतानि दानानि च संयमाश्च हि।