पृष्ठम्:मनोहरकाव्यमाला.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्दश हि वर्षाणि वत्स्यामि विजने वने । कन्दमूलफलैर्जीवन् हित्वा मुनिवदामिषम् ॥ २१ ॥ भरताय महाराजो यौवराज्यं प्रयच्छति । मां पुनर्दण्डकारण्ये विवासयति तापसम् ॥ २२ ॥ स षट् चाष्टौ च वर्षाणि वत्स्यामि विजने वने । आसेवमानो वन्यानि फलमूलैश्च वर्तयन् ॥ २३ ॥ सा निकृत्तेव सालस्य यष्टिः परशुना वने । पपात सहसा देवी देवतेव दिवश्च्युता ॥ २४ ॥ तामदुःखोचितां दृष्ट्वा पतितां कदलीमिव । रामस्तूत्थापयामास मातरं गतचेतसम् ॥ २५ ॥ उपावृत्त्योत्थितां दीनां वडवामिव वाहिताम् । पांसुगुण्ठितसर्वाङ्गी विममर्श च पाणिना ॥ २६ ॥ सा राघवमुपासीनमसुखार्ता सुखोचिता । उवाच पुरुषव्याघ्रमुपशृण्वति लक्ष्मणे ॥ २७ ॥ यदि पुत्र न जायेथा मम शोकाय राघव न स्म दुःखमतो भूयः पश्येयमहमप्रजा ॥२८॥ एक एव हि वन्ध्यायाः शोको भवति मानसः। अप्रजास्मीति सन्तापो न हन्यः पुत्र विद्यते ॥ २६ ॥ न दृष्टपूर्वे कल्याणं सुखं वा पतिपौरुषे । अपि पुत्रे विपश्येयमिति रामास्थितं मया ॥ ३० ॥ सा बहन्यमनोज्ञानि वाक्यानि हृदयच्छिदाम् । अहं श्रोष्ये सपत्नीनामवराणां परा सती ॥ ३१ ॥ अतो दुःखतरं किं नु प्रमदानां भविष्यति । मम शोको विलापश्च यादृशोऽयमनन्तकः ।। ३२॥ त्वयि सन्निहितेऽप्येवमहमासं निराकृता। किं पुनः प्रोषिते तात ध्रुवं मरणमेव मे ॥ ३३ ॥