पृष्ठम्:मनोहरकाव्यमाला.pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १८१ )

ततस्त्वेषां मुखमालोक्य राजा दुर्योधनः सूतमुवाच हृष्टः । इहैवैतामानय प्रातिकामिन् प्रत्यक्षमस्याः कुरवो ब्रुवन्तु ॥ ३५ ॥ ततः सूतस्तस्य वशानुगामी भीतश्च कोपाद्द्रुपदात्मजायाः । विहाय मानं पुनरेव सभ्या- नुवाच कृष्णां किमहं ब्रवीमि ॥ ३६ ॥

दुर्योधन उवाच- दुःशासनैष मम सूतपुत्रो वृकोदरादुद्विजतेऽल्पचेताः । स्वयं प्रगृह्यानय याज्ञसेनीं किं ते करिष्यन्त्यवशाः सपत्नाः ॥ ३७ ॥

वैशंपायन उवाच- ततः समुत्थाय स राजपुत्रः श्रुत्वा भ्रातुः शासनं रक्तदृष्टिः । प्रविश्य तद्वेश्म महारथाना- मित्यब्रवीद्द्रौपदीं राजपुत्रीम् ॥ ३८ ॥ एह्येहि पाञ्चालि जिताऽसि कृष्णे । दुर्योधनं पश्य विमुक्तलज्जा । कुरून् भजस्वायतपत्रनेत्रे धर्मेण लब्धाऽसि सभां परैहि ॥ ३९ ॥ ततः समुत्थाय सुदुर्मनाः सा विवर्णमामृज्य मुखं करेण । आर्ता प्रदुद्राव यतः स्त्रियस्ता वृद्धस्य राज्ञः कुरुपुङ्गवस्य ॥ ४० ॥