पृष्ठम्:मनोहरकाव्यमाला.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १८० )

द्रौपद्युवाच-

एवं नूनं व्यदधात् संविधाता स्पर्शावुभौ स्पृशतो वृद्धबालौ । धर्मं त्वेकं परमं प्राह लोके स नः शमं धास्यति गोप्यमानः ॥ २७ ॥

सोऽयं धर्मो मा त्यगात्कौरवान् वै सभ्यान्गत्वा पृच्छ धर्म्यं वचो मे । ते मां ब्रूयुर्निश्चितं तत्करिष्ये धर्मात्मानो नीतिमन्तो वरिष्ठाः ॥ २८ ॥

वैशम्पायन उवाच-

श्रुत्वा सूतस्तद्वचो याज्ञसेन्याः सभां गत्वा प्राह वाक्यं तदानीम् । अधोमुखास्ते न च किंचिदूचु- र्निर्बन्धं तं धार्तराष्ट्रस्य बुद्ध्वा ॥ २९ ॥

युधिष्ठिरस्तु तच्छ्रुत्वा दुर्योधनचिकीर्षितम् । द्रौपद्याः संमतं दूतं प्राहिणोद्भरतर्षभ ॥ ३० ॥ एकवस्त्रा त्वधोनीवी रोदमाना रजस्वला । सभामागम्य पाञ्चालि श्वशुरस्याग्रतो भव ॥ ३१ ॥ अथ त्वामागतां दृष्ट्वा राजपुत्रीं सभां तदा । सभ्याः सर्वे विनिन्देरन्मनोभिर्धृतराष्ट्रजम् ॥ ३२॥

वैशम्पायन उवाच- स गत्वा त्वरितं दूतः कृष्णाया भवनं नृप । न्यवेदयन्मतं धीमान्धर्मराजस्य निश्चितम् ॥ ३३ ॥ पाण्डवाश्च महात्मानो दीना दुःखसमन्विताः । सत्येनातिपरीताङ्गा नोदीक्षन्ते स्म किंचन ॥ ३४ ॥