पृष्ठम्:मनोहरकाव्यमाला.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १७९ )

न्यस्ताः पूर्वं भ्रातरस्तेन राज्ञा
स्वयं चात्मा त्वमथो राजपुत्रि ॥ १८ ॥

द्रौपद्युवाच- गच्छ त्वं कितवं गत्वा सभायां पृच्छ सूतज किं तु पूर्वं पराजैषीरात्मानमथवा नु माम् ॥ १९ ॥ एतज्ज्ञात्वा समागच्छ ततो मां नय सूतज । ज्ञात्वा चिकीर्षितमहं राज्ञो यास्यामि दुःखिता ॥ २० ॥

वैशंपायन उवाच- सभां गत्वा स चोवाच द्रौपद्यास्तद्वचस्तदा । युधिष्ठिरं नरेन्द्राणां मध्ये स्थितमिदं वचः ॥ २१ ॥ कस्येशो नः पराजैषीरिति त्वामाह द्रौपदी । किं नु पूर्वं पराजैषीरात्मानमथवापि माम् ॥ २२ ॥

वैशंपायन उवाच- युधिष्ठिरस्तु निश्चेता गतसत्व इवाभवत् । न तं सूतं प्रत्युवाच वचनं साध्वसाधु वा ॥ २३ ॥

दुर्योधन उवाच- इहैवागत्य पाञ्चाली प्रश्नमेनं प्रभाषताम् । इहैव सर्वे शृण्वन्तु तस्याश्चैतस्य यद्वचः ॥ २४ ॥

वैशंपायन उवाच- स गत्वा राजभवनं दुर्योधनवशानुगः । उवाच द्रौपदीं सूतः प्रातिकामी व्यथन्निव ॥ २५ ॥ सभ्यास्त्वमी राजपुत्र्याह्वयन्ति मन्ये प्राप्तः संशयः कौरवाणाम् । न वै समृद्धिं पालयते लघीयान् यस्त्वां सभां नेष्यति राजपुत्रि ॥ २६ ॥