पृष्ठम्:मनोहरकाव्यमाला.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १७६ )

द्रौपदीचीरहरणम् ।

सभायामानयनम् ।

दुर्योधन उवाच-

एहि क्षत्तर्द्रौपदीमानयस्व
 प्रियां भार्या संमतां पाण्डवानाम् ।
संमार्जतां वेश्म परैतु शीघ्रं
 तत्रास्तु दासीभिरपुण्यशीला ॥ १ ॥

विदुर उवाच-

दुर्विभाषं भाषितं त्वादृशेन
 न मन्द संवुद्ध्यसि पाशबद्धः ।
प्रपाते त्वं लम्बमानो न वेत्सि
 व्याघ्रान्मृगः कोपयसेऽतिवेलम् ॥ २ ॥
आशीविषास्ते शिरसि पूर्णकोपा महाविषाः ।
मा कोपिष्ठाः सुमन्दात्मन्मा गमस्त्वं यमक्षयम् ॥ ३ ॥
न हि दासीत्वमापन्ना कृष्णा भवितुमर्हति ।
अनीशेन हि राज्ञैषा पणे न्यस्तेति मे मतिः ॥ ४ ॥
अयं धत्ते वेणुरिवात्मघाती
 फलं राजा धृतराष्ट्रस्य पुत्रः ।
द्यूतं हि वैराय महाभयाय
 मत्तो न बुध्यत्ययमन्तकालम् ॥ ५ ॥
नारुन्तुदः स्यान्न नृशंसवादी
 न हीनतः परमभ्याददीत ।
ययास्य वाचा पर उद्विजेत
 न तां वदेद्रुशतीं पापलोक्याम् ॥ ६ ॥