पृष्ठम्:मनोहरकाव्यमाला.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १७५ )

दमनः सर्वसत्त्वानां सिंहादीनां महाबलः ॥ १५ ॥
तत्सर्वदमनो नाम मयैवास्य निरूपितम् ।
भरस्वेति च वच्मि त्वां ततोऽसौ भरतो भवेत् ॥ १६ ॥
दुर्वाससो हि शापेन त्वया या विस्मृता पुरा ।
त्यक्ता मेनकयानीय मयि न्यस्ता मनस्विनी ।
सा ते शकुन्तला राज्ञी सुषावेमं कुमारकम् ॥ १७ ॥
महाबलो महाप्राणो दुर्द्धर्षः सर्वभूभुजाम् ।
बद्धैः क्रीडति पञ्चास्यैः प्रबिभेत्यपि नान्तकात् ॥ १८ ॥
मया विमृष्टं दुर्दान्तः शिशुरेष ममाश्रमे ।
वस्तुं नार्हति बाल्याद्धि कदा किं नु समाचरेत् ॥ १९ ॥
अत एनं महीभर्त्तुः सुतं तं प्रापयाम्यहम् ।
त्वमथो देवकार्यार्थे गतः स्वर्ग ततो मया ॥ २० ॥
कृतो विलम्बो राजर्षे शापान्तेऽपि तव प्रभो ।
एष ते गृह्यतां पुत्रश्चक्रवर्ती भविष्यति ॥
आहर्त्ता सर्वयज्ञानां महाभागवतो नृप ॥ २१ ॥
इत्युक्त्वा ब्राह्मणीं प्राह वृद्धां देवगुरुर्मुनिः ।
शकुन्तलामिहानीय समर्पय महापतौ ॥ २२ ॥
इत्युक्त्वा ब्राह्मणी गत्वा समाहूय शकुन्तलाम् ।
राज्ञे समर्पयामास राजा च मुमुदे भृशम् ॥ २३ ॥
अथानुज्ञाप्य मारीचं सभार्य्यः ससुतो नृपः ।
हृष्टः स्वपुरमागच्छद्देवयानेन मारिष ॥ २४ ॥
स एव भरतो नाम दुष्यन्ततनयो महान् ।
ववृधे तत्र विप्रेन्द्र शुक्लपक्षे यथा शशी ॥ २५ ॥