पृष्ठम्:मनोहरकाव्यमाला.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४ ) भरतः कोसलपतेः प्रशास्तु वसुधामिमाम् । नानारत्नसमाकीर्णां सवाजिरथसंकुलाम् ॥ ३८ ॥ एतेन त्वां नरेन्द्रोऽयं कारुण्येन समाप्लुतः। शोकैः संक्लिष्टवदनो न शक्नोति निरीक्षितुम् ॥ ३६ ॥ एतत्कुरु नरेन्द्रस्य वचनं रघुनन्दन । सत्येन महता राम तारयस्व नरेश्वरम् ॥ ४०॥" इतीव तस्यां परुषं वदन्त्यां न चैव रामः प्रविवेश शोकम् । प्रविव्यथे चापि महानुभावो राजा च पुत्रव्यसनाभितप्तः ॥ ४१ ॥ तदप्रियममित्रघ्नो वचनं मरणोपमम् । श्रुत्वा न विव्यथे रामः कैकेयीं चेदमब्रवीत् ॥ ४२ ॥ एवमस्तु गमिष्यामि वनं वस्तुमहं त्वितः । जटाचीरधरो राक्षः प्रतिज्ञामनुपालयन् ॥ ४३ ॥ इदं तु ज्ञातुमिच्छामि किमर्थ मां महीपतिः । नाभिनन्दति दुर्धर्षो यथापूर्वमरिन्दमः ॥ ४४ ।। मन्युर्न च त्वया कार्यो देवि ब्रूमि तवाग्रतः । यास्यामि भव सुप्रीता वनं चीरजटाधरः ॥ ४५ ॥ हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च । नियुज्यमानो विस्रब्धः किं न कुर्यामहं प्रियम् ॥ ४६ ॥ अलीकं मानसं त्वेकं हृदयं दहते मम । स्वयं यन्नाह मां राजा भरतस्याभिषेचनम् ॥४७॥ अहं हि सीतां राज्यं च प्राणानिष्टान् धनानि च । हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः ॥ ४८ ।। किं पुनर्मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः । तव च प्रियकामार्थं प्रतिज्ञामनुपालयन् ॥ ४६ ॥