६० मनुस्मृतिः। [ अध्यायः २
न तेनेति ॥ न तेन वृद्धो भवति येनास्य शुक्लकेशं शिरः किंतु युवापि सन्विद्वांस्तं देवाः स्थविरं जानन्ति ॥ १५६ ॥
यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः। |
यथा काष्ठमय इति ॥ यथा काष्टघटितो हस्ती, यथा चर्मनिर्मितो मृगः, यश्च वियो नाधीते त्रय एते नाममात्रं दधति नतु हस्त्यादिकार्य शत्रुवधादिकं कर्तुं क्षमन्ते ॥ १५७ ॥
यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला । |
यथा घण्ढ इति ॥ यथा नपुंसकः स्त्रीपु निष्फलः, यथा च स्त्रीगवी गव्यामेव निष्फला, यथा चाज्ञे दानमफलं, तथा ब्राह्मणोऽप्यनधीयानो निप्फलः श्रौतस्मातकर्मानहतया तत्फलरहितः ॥ १५८ ॥
अहिंसयैव भूतानां कार्यं श्रेयोनुशासनम् । |
अहिंसयैवेति ॥ भूतानां शिष्याणां प्रकरणाच्छ्रेयोर्थमनुशासनमनतिहिंसया कर्तव्यम् । रज्ज्वा वेणुदलेन वा' इत्यल्पहिंसाया अभ्यनुज्ञानात् । वाणी मधुरा प्रीतिजननी श्लक्ष्णा या नोच्चैरुच्यते सा शिप्यशिक्षायै धर्मबुद्धिमिच्छता प्रयोक्तव्या १५९
इदानीं पुरुषमात्रस्य फलं धर्म वाङ्मनःसंयममाह-
यस्य वाङ्मनसी शुद्धे सम्यग्गुप्ते च सर्वदा । |
यस्येति ॥अध्यापयितुरेव यस्य वाङ्मनश्चोभयं शुद्धं भवति । वागनृतादिभिरदुष्टा मनश्च रागद्वेषादिभिरदूषितं भवति । एते वाङ्मनसी निषिद्धविषयप्रकरणे सर्वदा यस्य पुंसः सुरक्षिते भवतः स वेदान्तेऽवगतं सर्व फलं सर्वज्ञत्वं सर्वेशानादिरूपं मोक्षलाभादवाप्नोति ॥ १६० ॥
नारुंतुदः स्यादार्तोऽपि न परद्रोहकर्मधीः । |
नारंतुद इति ॥ अयमपि पुरुषमात्रस्यैव धर्मो नाध्यापकस्य । आर्तः पीडितोऽपि नारुंतुदः स्यान्न मर्मपीडाकरं तत्त्वदूषणमुदाहरेत् । तथा परस्य द्रोहोऽपकारस्तदर्थ कर्म बुद्धिश्च न कर्तव्या । तथा यया वाचास्य परो व्यथते तां मर्मस्पृशमथालोक्यां स्वर्गादिप्राप्तिविरोधिनी न वदेत् ॥ १६ ॥
संमानाद्ब्राह्मणो नित्यमुद्विजेत विषादिव । |