अध्यायः २] मन्वर्थमुक्तावलीसंवलिता। याख्याता तादृशोऽपि बालो वृद्धस्य ज्येष्टस्य पिता भवति । धर्मत इति पितृधर्मास्तस्मिन्ननुष्टातव्याः ॥ १५० ॥
प्रकृतानुरूपार्थवादमाह-
अध्यापयामास पितृञ्शिशुराङ्गिरसः कविः। |
अध्यापयामासेति ॥ अङ्गिरसः पुत्रो बालः कविर्विद्वान् पितॄन्गौणान् पितृव्यत्पुत्रादीनधिकवयसोऽध्यापितवान् । ताज्ञानेन परिगृह्य शिष्यान्कृत्वा पुत्रका इति आजुहाव । इतिह इत्यव्ययं पुरावृत्तसूचनार्थम् ॥ १५ ॥
ते तमर्थमपृच्छन्त देवानागतमन्यवः। |
ते तमर्थमपृच्छन्तेति ॥ ते पितृतुल्याः पुत्रका इत्युक्ता अनेन जातक्रोधाः पुत्रकशब्दार्थं देवान्पृष्टवन्तः देवाश्च पृष्टा मिलित्वा एतानवोचन् । युष्मान्यच्छिशुः पुत्रशब्देनोक्तवांस्तद्युक्तम् ॥ १५२ ॥
अज्ञो भवति वै बालः पिता भवति मन्त्रदः। |
अज्ञ इति ॥ वैशब्दोऽवधारणे । अज्ञ एवं बालो भवति न त्वल्पवयाः । मन्त्रदः पिता भवति । मन्त्रग्रहणं वेदोपलक्षणार्थम् । यो वेदमध्यापयति व्याचष्टे स पिता । अत्रैव हेतुमाह-यस्मात्पूर्वेऽपि मुनयोऽयं बालमित्यूचुः, मन्त्रदं च पितेत्येवाब्रुवन्नित्याह ॥ १५३ ॥
न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः । |
न हायनैरिति ॥ न बहुभिर्वर्षैः, न केशश्मश्रुलोमभिः शुक्लैः, न बहुना धनेन न पितृव्यत्वादिभिर्बन्धुभावैः समुदितैरप्येतैर्न महत्त्वं भवति, किंतु ऋषय इमं धर्म कृतवन्तः । यः साङ्गवेदाध्येता सोऽस्माकं महान संमतः॥ १५४ ॥
विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः। |
विप्राणामिति ॥ ब्राह्मणानां विद्यया, क्षत्रियाणां पुनर्वीर्येण, वैश्यानां धान्यव- स्वादिधनेन, शूद्राणामेव पुनर्जन्मना श्रेष्टत्वम् । सर्वत्र तृतीयार्थे तसिः ॥ १५५ ॥
न तेन वृद्धो भवति येनास्य पलितं शिरः। |