पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/८९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


अध्यायः २] मन्वर्थमुक्तावलीसंवलिता। ५५

परपत्नी तु या स्त्री स्यादसंबन्धा च योनितः।
तां ब्रूयाद्भवतीत्येवं सुभगे भगिनीति च ॥ १२९ ॥

परपत्नी त्विति ॥ या स्त्री परत्नी भवति, असंबन्धा च योनित इति स्वस्रादिन भवति तामनुपयुक्तसंभाषणकाले भवति सुभगे भगिनीति वा वदेत् । परपत्नीग्रहणाकन्यायां नैष विधिः। स्वसुःकन्यादेस्त्वायुप्मतीत्यादिपदैरभिभाषणम् ॥१२९॥

मातुलांश्च पितृव्यांश्च श्वशुरानृत्विजो गुरून् ।
असावहमिति ब्रूयात्प्रत्युत्थाय यवीयसः॥ १३० ॥

मातुलांश्चेति ॥ मातुलादीनागतान्कनिष्टानासनादुत्थाय असावहमिति वदेत् नाभिवादयेत् । असाविति स्वनामनिर्देशः । 'भूयिष्ठाः खलु गुरवः' इत्युपक्रम्य ज्ञानवृद्धतपोवृद्धयोरपि हारीतेन गुरुत्वकीर्तनात्तयोश्च कनिष्ठयोरपि संभवात्तद्विषयोऽयं गुरुशब्दः ॥ १३०॥

मातृष्वसा मातुलानी श्वश्रूरथ पितृष्वसा ।
संपूज्या गुरुपत्नीवत्समास्ता गुरुभार्यया ॥ १३१ ॥

मातृष्वसेति ॥ मातृष्वस्रादयो गुरुपत्नीवत्प्रत्युत्थानाभिवादनासनदानादिभिः संपूज्याः । अभिवादनप्रकरणादभिवादनमेव संपूजनं विज्ञायत इति समास्त । इत्यवोचत् । गुरुभासमानत्वात्प्रत्युत्थानादिकमपि कार्यमित्यर्थः ॥ १३१॥

भ्रातुर्भार्योपसंग्राह्या सवर्णाहन्यहन्यपि ।
विप्रोष्य तूपसंग्राह्या ज्ञातिसंबन्धियोषितः ।। १३२ ॥

भ्रातुर्भार्येति ॥ भ्रातुः सजातीया भार्या ज्येष्ठा पूजाप्रकरणादुपसंग्राह्या पादयोरभिवाद्या । अहन्यहनि प्रत्यहमेव । अपिरेवार्थे । ज्ञातयः पितृपक्षाः पितृव्यादयः, संबन्धिनो मातृपक्षाः श्वशुरादयश्च, तेषां पत्न्यः पुनर्विप्रोष्य प्रवासात्प्रत्यागतेनैवाभिवाद्याः नतु प्रत्यहं नियमः ॥ १३२ ॥

पितुर्भगिन्यां मातुश्च ज्यायस्यां च स्वसर्यपि ।
मातृवद्वृत्तिमातिष्ठेन्माता ताभ्यो गरीयसी ॥ १३३ ॥

पितुर्भगिन्यामिति ॥ पितुर्मातुश्च भगिन्यां ज्येष्ठायां चात्मनो भगिन्यां मातृवद्वृत्तिमातिष्टेत् । माता पुनस्ताभ्यो गुरुतमा । ननु मातृष्वसा मातुलानीत्यनेनैव गुरुपत्नीवत्पूज्यत्वमुक्तं किमधिकमनेन बोध्यते । उच्यते । इदमेव माता ताभ्यो गरीयसीति । तेन पितृष्वस्रानुज्ञायां दत्तायां मात्रा च विरोधे मातुराज्ञा अनुष्टेयेति । अथवा पूर्व पितृप्वस्रादेर्मातृवत्पूज्यत्वमुक्तम् । अनेन तु स्नेहादिवृत्तिरप्यतिदिश्यत इत्यपुनरुक्तिः ॥ १३३ ॥

दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभृताम् ।
न्यब्दपूर्व श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु ॥ १३४ ॥