पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अध्यायः २] मन्वर्थमुक्तावलीसंवलिता। ५१

आचार्यपुत्रः, परिचारकः, ज्ञानान्तरदाता, धर्मवित्, मृद्वार्यादिषु शुचिः, बान्धवः, ग्रहणधारणसमर्थः, धनदाता, हितेच्छुः, ज्ञातिः, दशैते धर्मेणाध्याप्याः ॥

नापृष्टः कस्यचिद्रूयान्न चान्यायेन पृच्छतः।

जानन्नपि हि मेधावी जडवल्लोक आचरेत् ॥ ११० ॥

नापृष्ट इति ॥ यदन्येनाल्पाक्षरं विस्वरं चाधीतं तस्य तत्त्वं न वदेत् । शिष्यस्य त्वपृच्छतोऽपि वक्तव्यम् । भक्तिश्रद्धादिप्रश्नधर्मोल्लङ्घनमन्यायस्तेन पृच्छतो न ब्रूयात् । जानन्नपि हि प्राज्ञो लोके मूक इव व्यवहरेत् ॥ ११० ॥

उक्तप्रतिषेधद्वयातिक्रमे दोषमाह-

अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति ।

तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति ॥ १११ ॥

अधर्मेणेति ॥ अधर्मेण पृष्टोऽपि यो यस्य वदति यश्चान्यायेन यं पृच्छति तयोरन्यतरो व्यतिक्रमकारी म्रियते, विद्वेषं वा तेन सह गच्छति ॥ १११॥

धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा ।

तत्र विद्या न वक्तव्या शुभं बीजमिवोषरे ॥ ११२ ॥

धर्मार्थाविति ॥ यस्मिन् शिष्येsध्यापिते धर्मार्थौ न भवतः परिचर्या वाध्ययनानुरूपा तत्र विद्या नार्पणीया। सुष्टु व्रीह्यादिबीजमिवोषरे । यत्र बीजमुप्तं न प्ररोहति स ऊषरः । न चार्थग्रहणे भृतकाध्यापकत्वमाशङ्कनीयम् , यद्येतावन्मह्यं दीयते तदैतावदध्यापयामीति नियमाभावात् ॥ ११२ ॥

विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना ।

आपद्यपि हि घोरायां न त्वेनामिरिणे वपेत् ॥ ११३ ॥

विद्ययेति ॥ विद्ययैव सह वेदाध्यापकेन वरं मर्तव्यं नतु सर्वथाध्यापनयोग्यशिष्याभावे चापात्रायैव तां प्रतिपादयेत् । तथा छान्दोग्यब्राह्मणम् 'विद्यया सार्धं म्रियेत न विद्यामूषरे वपेत् ॥ ११३ ॥

अस्यानुवादमाह-

विद्या ब्राह्मणमेत्याह शेवधिष्टेऽमि रक्ष माम् ।

असूयकाय मां मादास्तथा स्यां वीर्यवत्तमा ॥ ११४ ॥

विद्या ब्राह्मणमिति ॥ विद्याधिष्ठात्री देवता कंचिदध्यापकं ब्राह्मणमागत्यैवमवदत् । तवाहं निधिरस्मि। मां रक्ष । असूयकादिदोषवते न मां वदेः । तथा सत्यतिशयेन वीर्यवती भूयासम् । तथाच छान्दोग्यब्राह्मणम्-'विद्या ह वै ब्राह्मणमाजगाम तवाहमस्मि त्वं मां पालयानर्हते मानिने नैव मादा गोपाय मां श्रेयसी तथाहमस्मि' इति ॥ ११४ ॥