पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/८४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


५०
[अध्यायः २
मनुस्मृतिः।

अपां समीपे नियतो नैत्यकं विधिमास्थितः।
सावित्रीमप्यधीयीत गत्वारण्यं समाहितः॥ १०४॥

 अपां समीप इति ॥ ब्रह्मयज्ञरूपमिदं बहुवेदाध्ययनाशक्तौ सावित्रीमानाध्ययन- मपि विधीयते। अरण्यादिनिर्जनदेशं गत्वा नद्यादिजलसमीपे नियतेन्द्रियः समा- हितोऽनन्यमना नैत्यकं विधिं ब्रह्मयज्ञरूपमास्थितोऽनुतिष्टासुः सावित्रीमपि प्रणव- व्याहृतित्रययुतां यथोक्तामधीयीत ॥ १०४ ॥

वेदोपकरणे चैव स्वाध्याये चैव नैत्यके।
नानुरोधोऽस्त्यनध्याये होममन्त्रेषु चैव हि ॥ १०५॥

 वेदोपकरण इति ॥वेदोपकरणे वेदाङ्गे शिक्षादौ नैत्यके नित्यानुष्ठेये च स्वाध्याये ब्रह्मयज्ञरूपे होममन्त्रेषु चानध्यायादरो नास्ति ॥ १०५ ॥

नैत्यके नास्त्यनध्यायो ब्रह्मसत्रं हि तत्स्मृतम् ।
ब्रह्माहुतिहुतं पुण्यमनध्यायवषट्कृतम् ॥१०६ ॥

 नैत्यक इति ॥ पूर्वोक्तनैत्यकस्वाध्यायस्यायमनुवादः । नैत्यके जपयज्ञेऽनध्यायो नास्ति । यतः सततभवत्वात् । ब्रह्मसत्रं तन्मन्वादिभिः स्मृतम् । ब्रह्मैवाहुतिर्ब्रह्माहुतिर्हविस्तस्या हुतमनध्यायाध्ययनमध्ययनरूपमनध्यायवपट्कृतमपि पुण्यमेव भवति ॥ १०६॥

यः स्वाध्यायमधीतेऽब्दं विधिना नियतः शुचिः।
तस्य नित्यं क्षरत्येष पयो दधि घृतं मधु ॥ १०७ ॥

 यः स्वाध्यायमिति ॥ अब्दमित्यत्यन्तसंयोगे द्वितीया । यो वर्षमप्येकं स्वाध्यायमहरहर्विहिताङ्गयुक्तं नियतेन्द्रियः प्रयतो जपति तस्यैव स्वाध्यायो जपयज्ञः क्षीरादीनि क्षरति क्षीरादिभिर्देवान्पितॄंश्च प्रीणाति । ते च प्रीताः सर्वकामैर्जपयज्ञकारिणस्तर्पयन्तीत्यर्थः । अतएव याज्ञवल्क्यः-'मधुना पयसा चैव स देवांस्तर्पयेद्द्विजः। पितॄन्मधुघृताभ्यां च ऋचोऽधीते हि योऽन्वहम् ॥' इत्युपक्रम्य चतुर्णामेव वेदानां पुराणानां जपस्य च देवपितृतृप्तिफलमुक्त्वा शेपे 'ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः' इत्युक्तवान् ॥ १०७ ॥

अग्नीन्धनं भैक्षचर्यामधःशय्यां गुरोर्हितम् ।
आ समावर्तनात्कुर्यात्कृतोपनयनो द्विजः ॥ १०८ ॥

 अग्नीन्धनमिति ॥ सायंप्रातः समिद्धोमं भिक्षासमूहाहरणमखट्वाशयनरूपाम- धःशय्यां नतु स्थण्डिलशायित्वमेव । गुरोरुदककुम्भाद्याहरणरूपं हितं कृतोपनयनो ब्रह्मचारी समावर्तनपर्यन्तं कुर्यात् ॥ १०८ ॥

 कीदृशः शिष्योऽध्याप्य इत्याह-

आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः ।
आप्तः शक्तोऽर्थदः साधुः स्वोऽध्याप्या दश धर्मतः॥१०९॥