इन्द्रियाणां त्विति ॥ सर्वेषामिन्द्रियाणां मध्ये यद्येकमपीन्द्रियं विषयप्रवणं भवति ततोऽस्य विषयपरस्य इन्द्रियान्तरैरपि तत्त्वज्ञानं क्षरति न व्यवतिष्ठते । चर्मनिर्मितोदकपात्रादिवैकेनापि छिद्रेण सर्वस्थानस्थमेवोदकं न व्यवतिष्ठते॥१९॥
इन्द्रियसंयमस्य सर्वपुरुषार्थहेतुतां दर्शयति-
वशे कृत्वेन्द्रियग्रामं संयम्य च मनस्तथा । |
वशे कृत्वेति ॥ बहिरिन्द्रियगणमायत्तं कृत्वा मनश्च संयम्य सर्वान्पुरुषार्थान्सम्यक्साधयेत् । योगत उपायेन स्वदेहमपीडयन्यः सहजसुखी संस्कृतान्नादिकं भुङ्क्ते स क्रमेण तं त्यजेत् ॥ १० ॥
पूर्वां संध्यां जपंस्तिष्ठेत्सावित्रीमार्कदर्शनात् । |
पूर्वां संध्यामिति ॥ पूर्वां संध्यां पश्चिमामिति च । कालाध्वनोरत्यन्तसंयोगे द्वितीया । प्रथमसंध्यां सूर्यदर्शनपर्यन्तं सावित्रीं जपंस्तिष्ठेत् । आसनादुत्थाय निवृत्तगतिरेकत्र देशे कुर्यात् । पश्चिमां तु संध्यां सावित्रीं जपन्सम्यङ्नक्षत्रदर्शनपर्यन्तमुपविष्टः स्यात् । अत्र च फलवत्त्वाज्जपः प्रधानं स्थानासने त्वङ्गे। 'फलवत्सन्निधावफलं तदङ्गम्' इति न्यायात् । 'संध्ययोर्वेदविद्विप्रो वेदपुण्येन युज्यते । सहस्रकृत्वस्त्वभ्यस्य' इति च पूर्वं जपात्फलमुक्तम् । मेधातिथिस्तु स्थानासनयोरेव प्राधान्यमाह । संध्याकालश्च मुहूर्तमात्रम् । तदाह योगियाज्ञवल्क्यः - 'हासवृद्धी तु सततं दिवसानां यथाक्रमम् । संध्या मुहूर्तमात्रं तु हासे वृद्धौ च सा स्मृता।। १०१॥
पूर्वां संध्यां जपंस्तिष्ठन्नैशमेनो व्यपोहति । |
पूर्वां संध्यामिति ॥ पूर्वसंध्यायां तिष्ठन् जपं कुर्वाणो निशासंचितं पापं नाशयति । पश्चिमसंध्यायां तूपविष्टो जपं कुर्वन्दिवार्जितं पापं निहन्ति । तत्रापि जपात्फलमुक्तम् । एतच्चाज्ञानादिकृतपापविषयम् । अतएव याज्ञवल्क्यः-'दिवा वा यदि वा रात्रौ यदज्ञानकृतं भवेत् । त्रिकालसंध्याकरणात्तत्सर्वं विप्रणश्यति ॥ १०२॥
न तिष्ठति तु यः पूर्वां नोपास्ते यश्च पश्चिमाम् । |
न तिष्ठतीति॥ यः पुनः पूर्वसंध्यां नानुतिष्ठति पश्चिमां च नोपास्ते। तत्तत्कालविहितं जपादि न करोतीत्यर्थः । स शूद्र इव सर्वस्माद्द्विजातिकर्मणोऽतिथिसत्कारादेरपि ब्राह्यः कार्यः । अनेनैव प्रत्यवायेन संध्योपासनस्य नित्यतोक्ता । नित्यत्वेऽपि सर्वदापेक्षितपापक्षयस्य फलत्वमविरुद्धम् ॥ १०३ ॥
मनु० ५