इन्द्रियाणामिति ॥ इन्द्रियाणां विषयेष्वपहरणशीलेषु वर्तमानानां क्षयित्वादिविषयदोषाञ्जानन्संयमे यत्नं कुर्यात्सारथिरिव रथनियुक्तानामश्वानाम् ॥ ८८ ॥
एकादशेन्द्रियाण्याहुर्यानि पूर्वे मनीषिणः । |
एकादशेति ॥ पूर्वपण्डिता यान्येकादशेन्द्रियाण्याहुस्तान्यर्वाचां शिक्षार्थं सर्वाणि कर्मतो नामतश्च क्रमाद्वक्ष्यामि ॥ ८९ ॥
श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी । |
श्रौत्रमिति ॥ तेष्वेकादशसु श्रोत्रादीनि दशैतानि बहिरिन्द्रियाणि नामतो निर्दिष्टानि । पायूपस्थं हस्तपादमिति 'द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्' इति प्राण्यङ्गद्वन्द्वत्वादेकवद्भावः ॥ ९० ॥
बुद्धीन्द्रियाणि पञ्चैषां श्रोत्रादीन्यनुपूर्वशः। |
बुद्धीन्द्रियाणीति॥ एषां दशानां मध्ये श्रोत्रादीनि पञ्च क्रमोक्तानि बुद्धेःकरणत्वाद्बुद्धीन्द्रियाणि । पायवादीनि चोत्सर्गादिकर्मकरणत्वात्कर्मेन्द्रियाणि तद्विदो वदन्ति॥
एकादशं मनो ज्ञेयं स्वगुणेनोभयात्मकम् । |
एकादशमिति ॥ एकादशसंख्यापूरकं च मनोरूपमन्तरिन्द्रियं ज्ञातव्यम् । स्वगुणेन संकल्परूपेणोभयरूपेन्द्रियगणप्रवर्तकस्वरूपम् । अतएव यस्मिन्मनसि जिते उभावपि पञ्चकौ बुद्धीन्द्रियकर्मेन्द्रियगणौ जितौ भवतः । पञ्चकाविति 'तदस्य परिमाणम्' इत्यनुवृत्तौ 'संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु' इति पञ्चसंख्यापरिमितसङ्घार्थे कः ॥ ९२ ॥
मनोधर्मसंकल्पमूलत्वादिन्द्रियाणां प्रायेण प्रवृत्तेः किमर्थमिन्द्रियनिग्रहः कर्तव्य इत्यत आह -
इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् । |
इन्द्रियाणामिति ॥ यस्मादिन्द्रियाणां विषयेषु प्रसक्त्या दृष्टादृष्टं च दोषं निःसंदेहं प्राप्नोति । तान्येव पुनरिन्द्रियाणि सम्यङ्नियम्य सिद्धिं मोक्षादिपुरुषार्थयोग्यतारूपां लभते । तस्मादिन्द्रियसंयमं कुर्यादिति शेषः ॥ ९३ ॥
किमिन्द्रियसंयमेन विषयोपभोगादेरलब्धकामो निवर्त्स्यतीत्याशङ्क्याह -
न जातु कामः कामानामुपभोगेन शाम्यति । |